पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
52
अरण्यकाण्ड:
सुतीक्ष्णसन्दर्शनम्



नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै ।

 अथ गुणमुक्तु दोषमध्याह – इममित्यादि । अहत्वेति । हननमकृत्वेत्यर्थः । अपि तु लोभयित्वा चितक्षोमं कृत्वेत्यर्थः । स्वयं अकुतोभयाः–ऋषिभिः बघाभावात् कुतश्चनापि भयरहिताः । नान्यो दोषो भवेदत्र' इत्यस्यैव विवरणं--- मृगेभ्योऽन्यत्र विद्धि वै इति ॥

तच्छ्रुत्वा वचनं तस्य महर्षेः लक्ष्मणाग्रजः ॥ १७ ॥
उवाच वचनं धीर: [१] विकृष्य सशरं धनुः ।

 तच्छ्रुत्वेति । मृगभयविषयकं वचनमित्यर्थः ॥ १७ ॥

तानहं, सुमहाभाग ! मृगसङ्घान् समागतान् ॥ १८ ॥
हन्यां निशितधारेण शरेणा [२]शनिवर्चसा

|

 मृगसङ्घान् हन्यामिति प्रप्तकाले लिङ्, यथाप्राप्त कालं अशेषमृगसङ्घहननं कुर्याम् ॥ १८ ॥

[३][४]भवांस्तत्राभिषज्येत, किं स्यात् [५] कृच्छ्रतरं ततः ॥ १९ ॥
[६] [७]एतस्मिन् आश्रमे वासं चिरं तु न समर्थये ।



  1. विकृष्य सशरं धनुरिति स्वोत्साहप्रकटनम्-गो
  2. नतपर्वणा-ङ.
  3. यत्र - यदुपद्रवे भवान् अभिषज्येत- र्प डयेत,
    ततः कृच्छतरं- केशाधिक्यं किं स्यात् । एतेन मुनीनां खेदहेतवः
    तदाझ्या हन्तभ्या एवेति रामाभिप्रायः सूचित:-रा.
  4. भवान् यत्रा-ज.
  5. दु:खतरं-ङ,
  6. मृगवधवचन श्रवणानन्तरं तूष्णींमावादिना मृगवधस्य मुनेरनभिमतत्वं
    विज्ञायाह-एतस्मिन्निति-रा. वस्तुतस्तु - शरभङ्गाश्रमागतमुनिभिस्साकमेव
    सुतीक्ष्णाश्रमागमनात् (6-26, 7-1 श्लोको द्रष्टभ्यौ), अनुपदं
    'मुनयस्त्वरयन्ति नः' (८-५) इत्युक्तेच ऋषिभ्यो दत्तप्रतिशैवात्र हेतुरिति
    प्रतिभाति ॥
  7. एकस्मिन्-ड.