पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७ सर्ग:
51
स्वाश्रमे नियतं वासं तेषामाह मुनीश्वर:



 इति आदावेव वेदितम् । अतः-देवः, महादेवः, सुरेश्वरः इति प्रवृत्ति- निमित्तमेदः * सुस्पष्ट, मम पुण्येन कर्मणा- शुद्धयोगानुष्ठानेन ब्रह्म- लोकान्तसर्वलाकान् मे जितानाह । अत एव आरूढव्या इति त चाह । यदेवं, अतः - तेष्वित्यादि । विहरस्वेति । विहरेति यावत् ॥२०॥

तमुग्र[१] तपसा युक्तं महर्षि सत्यवादिनम् ।
प्रत्युवाचात्मवान् रामः ब्रह्माणमिव [२] काश्यपः || ११ ॥
अहमेवाहरिष्यामि स्वयं लोकान्, महामुने!
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ १२ ॥

 प्रदिष्टमिति । त्वयेति शेषः ॥ १२ ॥

भवान् सर्वत्र कुशलः सर्वभूतहिते रत:
आख्यातः शरभङ्गेण गौतमेन महात्मना ॥ १३ ॥

 सर्वत्रेति । सर्वपुरुषार्थसाधन इत्यर्थः। गौतमेन-गौतम-गोत्रापत्येनेति यावत् ॥ १३ ॥

एवमुक्तस्तु रामेण महर्षिः लोकविश्रुतः
अब्रवीन्मधुरं वाक्यं हर्षेण महताऽऽनुतः ।। १४ ।।
अयमेवाश्रमः, राम ! गुणवान् रम्यतामिह ।
ऋषिसमानुचरितः सदा मूलफलान्वितः ॥ १५ ॥

 अयमिति । अस्मदीय इत्यर्थः ॥ १५ ॥

इममाश्रममागम्य मृगसङ्घाः,महायशः !
अहत्वा प्रतिगच्छन्ति लोभयित्वाऽकुतोभयाः ॥ १६ ॥



[३]

[४]अहत्वा- हननमकृत्वा, लोभयित्वा - रूपकान्तिगतिविशेषैः चित्तनोभं कृत्वा छन्तीत्यर्थः । अनेन भाविमारीचवृत्तान्तः सूचित:-ति. अटित्वा-इतस्ततः परिप्लत्य, लोभयित्वा-समाधिमङ्गं जनयित्वा-गो.</ref>}}

  1. तपसं दीप्तं- ङ. ज.
  2. वासवः-ङ.. ज.
  3. महीयसः-ङ.
  4. अटित्वा-ङ.