पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
51
[ अरण्यकाण्ड:
सुतीक्ष्णाभ्यनुशा



अष्टम: सर्गः

[सुतीक्ष्णाभ्यनुज्ञा]

रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः ।
परिणाम्य निशां तत्र प्रभाते प्रत्यबुद्ध्यत ॥ १ ॥

 अथ सुतीक्ष्णानुज्ञासेन रामेण मुनिभिः सह आश्रममण्डलप्रवेशः । रामस्त्वित्यादि । परिणाम्येति । परिणामशब्दात् तत्करोतीति णिच, अतिवाद्येति यावत् ॥ १ ॥

उत्थाय तु यथाकालं राघवः [१] सह सीतया |
[२]उपास्पृशत् सुशीतेन जलेनोत्पलगन्धिना || २ ||

 उत्पलस्य गन्धोऽस्यास्तीति तथा ॥२॥}}

अथ तेऽग्निं [३] सुरांश्चैव वैदेही रामलक्ष्मणौ ।
काल्यं विधिवदभ्यर्च्य तपस्त्रिशरणे वने || ३ ||

 काल्यं - यथाकालप्राप्तं - उदयन्तमिति यावत् ॥ ३ ॥}}

[४].उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः ।
सुतीक्ष्णमभिगम्येदं लक्ष्णं वचनमब्रुवन् ॥ ४ ॥

सुखोपिताः स्म, भगवन् ! त्वया पूज्येन पूजिताः ।
आपृच्छामः प्रयास्यामः मुनयः त्वरयन्ति नः ॥ ५ ॥



  1. सह सीतयेत्यनेन पूर्वमेव सौमित्रि: स्नात इति व्यज्यते-गो.
  2. उपस्पृसश्य-ज.
  3. सुरान्-नारायणम, सह पत्न्या विशालाक्ष्या नारायणमुपागमत्' इति अयोध्याकाण्डे
    (स. ६, श्लो. २) उक्तेः । परिवारापेक्षया बहुवचनम् - गो.
  4. उदयन्तं- उद्यन्तम् । अनेन होमानन्तरमादिस्योपस्थानोक्त्या अनुदितहोमपक्षसूचनात
    कात्यायनसूत्रक्रमेण राघवाणा-मनुष्ठानमिति गम्यते-- गो