पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
40
[अरण्यकाण्ड :
रक्षोवधप्रतिशा



 आगतं साक्षात् प्राप्तिं स्वीकृत्य अनुमन्यते स्म इत्यर्थः । एवं ब्रह्ममेघे रामप्रतीक्षणात् भगवान् रामो ब्रह्मेति शिशोरपि स्पष्टम् । तथा अग्रेऽपि प्रदर्शयिष्यामः । रघु (४२) मानः सर्गः ॥ ४२ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे पञ्चमः सर्गः



षष्ठः सर्गः

[रक्षोवधप्रतिज्ञा]

शरभङ्गे दिवं याते [१] मुनिसङ्घाः समागताः ।
अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ॥ १ ॥

 अथ शरभङ्गाश्रमे समागतरक्षः पीडानिवृत्तिप्रार्थकदण्डकारण्य - ब्रह्मर्षीणां रक्षोवधप्रतिश्रवणम् । शरभङ्ग इत्यादि । दिवं यात इति । इह च प्रयोगात् ब्रह्मलोके परदिवाख्ये सर्वतः इह काव्ये स्वर्गपर्यायाणां प्रयोगो द्रष्टव्यः । स्वर्गादिशब्दाः सुखवाचिनः । ब्रह्मलोकस्य निरतिशयानन्दत्वात् कैमुतिकसिद्धं स्वर्गादिवाच्यत्वम् । अभ्यगच्छन्तेति । स्वरक्षासमर्थमहावैभवस्य शरभङ्गस्य ब्रह्मलोक- प्रस्थितत्वात् रक्षाप्रार्थनार्थमिति शेषः ॥ १ ॥

 [२]खानसाः वालखिल्याः संप्रक्षाला मरीचिपाः
अश्मकुट्टाश्च बहवः पत्राहाराश्च [३] धार्मिकाः ॥ २ ॥



  1. शरभङ्गदर्शनार्थ प्राप्ता मुनिसङ्क:- रा.
  2. सदा शरीरं संप्रक्षालयन्तीति संप्रक्षाला: । मरीचीन्-
    चन्द्रसूर्यादि किरणान् सदा पिबन्तीति मरीविपाः, सदाऽन्तः
    किरणान् प्रवेशयन्तः विवृत्तास्या इत्यर्थः । अश्मभिरात्म शरीराणि कुट्टन्तीत्यश्मकुट्टा:-गो.
    अश्मकुट्टा:- अपक्ककुट्टितान्नभक्षका:-ति. यद्व। प्रत्यहं जीवनसाधनं संपाद्य सर्व तत्वै
    विनियुज्य ये वर्तन्ते ते वा संप्रक्षाला:- अश्वस्तनिका इत्यर्थ:-ती.
  3. तापसा:-ङ,