पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५ सर्ग:]
39
संदृश्य रामं धन्यः सः मुनिः स्वर्ग समारुहत्



 अथ 'स लोकानाहितामीनां' इत्यादिना 'परममहदु चैरो मिति प्रापुः' इत्युपदिष्टसाक्षाहूझ सायुज्यलक्षणपरमापवर्गपटले उपदिष्टम् । आहितामीनां लोकाः 'कर्मणा पितृलोकः' इति श्रुताः चन्द्रमण्डल- यात्राः । ऋषयः उपासकाः तेषां लोकाः 'विद्यया देवलोकः ' इति श्रुताः सौरमण्डलयात्राः । देवा:- भगवदिन्द्रियदेवाः त्रय- स्त्रिंशत् आजानदेवाः सपत्नीक पञ्चब्रह्मविष्णुरुद्रविष्णुरूपाः तेषां लोकाः ब्रह्माः ध्रुवयात्राः | तान् सर्वांश्च व्यतिक्रम्य ब्रह्मलोकं— श्रीमदादिगुरु- तुरीयब्रह्मलोकं व्यरोहत-अ / रूढवान् ॥ ४१ ॥

स पुण्यकर्मभवने द्विजर्षभः
[१]पितामहं सानुचरं ददर्श ह ।
पितामहश्चापि समक्ष्य तं द्विज
ननन्द सुस्वागतमित्युवाच ह ॥ ४२ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे पञ्चमः सर्गः



पुण्यं - शुभं - जगत्पञ्चकृत्य प्रवर्तनरूपं कर्म यस्य स तथा, तस्य भवनं प्रागुक्त ब्रह्मलोकः । त्रिब्रह्मणः पितरः, तेषां पितृत्वात पितामहः -- श्रीमदा दिगुरुः । सानुचरं— अनुचंगः समहेशाः त्रय- स्त्रिंशत् कोटिदेवाः । ददर्शति । 'मुक्तोपसृप्यत्वात्' इति सूत्रात् 'परात्परं पुरिशयं पुरुषमीक्षते' इति तद्विषयवाक्यतश्च मुक्तानुग्रहाय गृहीतमातृकामयदिव्यमञ्जलविग्रहत्वात् । स्व गतं - स्वस्य परात्परस्य



  1. पितामहं-- ब्रह्मादिक्षयसमष्टिरूपम्-ति. पितामहशब्दोऽपि सविग्रहपरमात्म-
    परः गॉ।