पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
38
[अरण्यकाण्डः
शरभङ्गदर्शनम्



ततोऽग्निं सुसमाधाय हुत्वा चाज्येन [१]मन्त्रवित् ।
शरभङ्गो [२] महातेजाः प्रविवेश हुताशनम् ॥ ३८ ॥

 ततोऽमें सुसमाघायेति। "यद्युत्कण्ठा ( ऽऽस्मदेवाप्तौ तदाबासौ ब्रह्ममेधा (नलं व्रजेत् )त् जडं त्यजेत् । नाभिवक्तात्मगात्मामीन् अवरोप्य यथास्थलम् । संस्कारयेत्" इत्युपक्रम्य, न्यासयोः सहकर्तॄणां अश्वमेघशतायुतम् ॥ " इत्यन्तोपनिषदुपदिश्यमानाध्वनेति शेषः। मन्त्रविदिति। उक्तोपनिषदुपदिश्यमानब्रह्ममेघमंत्र विदित्यर्थः । प्रविवेशेति । 'ब्राह्मणत्वेति स्वजीवज्योतिश्चमस इत्यालभ्य परम- महरुश्चैरोमिति प्रापुः' इत्युपनिषदुपदिश्यमानब्रह्मसिद्धान्त मूलमन्त्रेणेति शेषः ॥ ३८ ॥

तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः ।
जीर्णां त्वचं तथाऽस्थीनि यच्च मांसं संशोणितम् ।। ३९ ॥
[३].रामस्तु विसितो भ्रात्रा भार्यया च सहात्मवान् ।
स च पावकसङ्काशः कुमारः समपद्यत ।
उत्थायाग्नि [४]चयात् तस्मात् शरभङ्गो व्यरोचत ॥ ४० ॥

 कुमारः समपद्यत उत्थायाग्निचयात् तस्मादिति । " अथ यद्ब्रां इत्यादित्ये जुहवुः तद् ब्रह्माभिः नवब्रह्मर्षिहदतिष्ठत् द्वे धूम भस्माभ्यां " इत्युपदिश्यमानरीत्या अग्मे भूमानन्दपदविद्यादेहात्मनो -

न्यासयोः स्थानम् ॥ ४० ॥

स लोकानाहिताग्रीनां ऋषीणां च महात्मनाम् ।
देवानां च व्यतिक्रम्य [५] ब्रह्मलोकं व्यरोहत ॥ ४१ ॥



  1. मन्त्रवत् - ङ, ज,
  2. महाप्राश:-ङ,
  3. इदमर्ध कुण्डलितम्-ज
  4. चितात्-ङ,
  5. ब्रह्मात्मकं लोक-गो.