पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ सर्ग:]]
41
ततः सर्वे समागम्य मुनथो राममब्रुवन्



 वैखानसा इति । 'ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः । ' इति भगवतः प्रजापतेः नखलोमभूताः, तज्जा ऋषयस्तु वैखानसवालखिल्याद्याः । भगवतः श्रीपादप्रक्षालनतीर्थजाः महर्षयः -- संप्रक्षालाः । मरीचिपाः - चातकवत् चन्द्रकिरणमात्र- जीवनाः, सौरकिरणमात्रजीवना वा । अश्मनः कुट्टयित्वा भक्षयन्तः अश्मकुट्टाः ॥ २ ॥

[१]दन्तोलूखलिनश्चैव तथैवोन्मञ्जकाः परे ।
[२]गात्रशय्या अशय्याश्च तथैवा [३].नवकाशिकाः ॥ ३ ॥

 दन्तव्यतिरिक्तस्व जीवन वस्त्ववह ननसाधनरहिताः - दन्तोलूख- लिनः । कण्ठदनजले हेमन्तेषु स्थित्वा तपस्साधकाः - उन्मज्जकाः । गात्रमात्रेण शयनवन्तः नित्यमनास्तरणशायिनः — गात्रशय्याः | एकपादस्य स्थित्यवकाशप्रदानरहिताः एकपादस्थितिमन्तः- अनवकाशिकाः || ३ ॥

मुनयः सलिलाहाराः वायुभक्षास्तथापरे ।
आकाशनिलयाश्चैव तथा [४] स्थाण्डिलशायिनः ॥ ४ ॥



  1. गात्रशय्या: --गात्रावयवानि व्याघ्रचर्मादीनि शय्या येषां ते । अशय्या:--
    भारतरणरहितस्थितिमन्तः । अनवकाशिका :- अहर्दिवं कर्मनिरतत्वात् अवकाशरहिताः- रा.
    मात्र शय्या:-अनास्तरणशायिनः । अशय्या: - निद्राहीनाः - ति. उन्मज्जका:-
    शिरोमात्रमुद्धृत्य सदा जलावगाढा: । गात्रमेव शय्या येषां ते गात्रशय्याः,उरसि पृष्ट॑ऽसे
    मा शिरः कृत्वा शयानाः इत्यर्थः, अतो न 'स्थण्डिलशायिनः' इत्यनेन पुनरुक्तिः ।
    शव्या:-अनम्रगात्राः । अभ्रावकाशका :- वर्षवातातपादिष्वप्यनामृतदेश एव वर्तमाना:- गो.
    गाशय्यास्तु केवलं स्थळे गात्रैरेव शेरते ये ते। ये कदाचिदपि न शेरते ते अशय्याः-ती.
  2. गतशय्याश्च आर्याभ-ङ.
  3. भ्रावकाशकाः-छ. ज
  4. स्पण्डिले- कुशाद्यावृतभूतले शेरते-गो. ती