पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋष्यमूकमार्गकथनम् [अरण्यकाण्डः 'ऋष्यमूरुथ पम्पायाः पुरस्तात् पुष्पितमः ॥ ३२ ॥ सुदुःखा'रोहणो नाम + शिशुनागाभिरक्षितः 2 ॥ उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः ॥ ३३ ॥ पम्पाया इति । रोहणं यस्य स तथा । 512

पम्पातीरवर्तिमतङ्गाश्रमा देत्यर्थः । सुदुःखेना- शिशुभिः नागैः - सर्वैः अभिरक्षितः तथा । अयमेव दुरारोहत्वे हेतुः। एनं ऋष्यमूकं पापकर्मा नाघिरोद्दतीत्यत्र हेतुः - उदारः इत्यादि । प्रशस्त इत्यर्थः । तत्र हेतुः - ब्रह्मगेत्यादि । पूर्वकाले सर्गादिकाले इत्यर्थः । सर्वस्य च ब्रह्मनिर्मितस्त्रेऽपि भूयोगतिर्विज्ञ स्यते विशेषणेन । विद्यैश्वर्यतप. प्राधान्येन सृष्ट इत्यर्थः । अतः तन्मूलाऽतिशयः प्रदश्यते ।। ३३ ।। -- - शयानः पुरुषः, राम ! तस्य शैलस्य मूर्धनि । यत् स्वमं लभते वित्तं " प्रबुद्धोऽप्यधिगच्छति ॥ ३४ ।। शयान इत्यादि । प्रबुद्धोऽप्यधिगच्छतीति । स्वप्ने लब्धं जाग्रस्यपि लब्धमेवावतिष्ठत इत्यर्थः ॥ ३४ ॥

  • न त्वेनं विषमावारः पापकर्माधिरोहाते ।

यस्तु तं विषमाचारः पापकर्माधिरोहति ॥ ३५ ॥ तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः । तत्रैव – पर्वनमूऽर्थेवेत्यर्थः ॥ ३५ ॥

  • ऋष्या: - मृगवेशेषा: मूत:- निश्शब्दा भवन्ति यस्मिन् स ऋष्यमूक - गो.

↑ नामशब्द: प्रसद्धिवाची । + शिशुनगः – बालः नागाः गजा एत्र-गो. शिशुनागा: –देवयोनिविशेषा इति केचित् । बालगंजैश्व रा. अत्र 1 रोहणश्चेत्र-ज. 2 एतदनन्तरं - महात्म मिर्महायज्ञैः स्तोत्र मत्रैर्द्विजातिमि :- इत्यधिकं - ङ. ३ तस्प्रबुद्धोऽ. ध - ङ. इदं अर्ध कुण्डलितं - ज.