पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नात्र प्रवेशं लभते पापकर्मा, न नास्तिक: दृष्ट्वा देवोपमं, राम ! ' देवलोकं गमिष्यति । शबरीत्याख्या श्रमणी–तापसीति विशेषणम् । नामशब्दः प्रसिद्धौ । त्वां दृष्ट्वा देवलोकं गमिष्यति – योगसिद्धत्वतः त्वां त्वदायतिं चावगत्य त्वत्सूचनानन्तरं त्वदनुग्रहादहमिव आदिदेव- ब्रह्मलोकं जिगमिषतीत्यर्थः ॥ २६-२७ ॥ ७३ सर्गः] 511 2 ततस्तद्राम ! पम्पायास्तीरमाश्रित्य पश्चिमम् ॥ २८ ॥ आश्रमस्थानमतुलं गुह्यं, काकुत्स्थ ! पश्यसि । आश्रमस्थानं -- आश्रमप्रदेशम् । गुह्यं - गुप्तम् ॥ २८ ॥ न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम् ॥ २९ ॥ 3

  • विविधास्तत्र वै नागाः वने तसिंश्च पर्वते ।

ऋषेस्तस्य मतङ्गस्य * विधानात्तच्च काननम् ॥ ३० ॥ 5 ' मतङ्गवनमित्येव विश्रुतं, रघुनन्दन ! | तस्मिन् नन्दनसङ्काशे देवारण्योपमे वने ॥ ३१ ॥ नानाविहगसङ्कीर्णे रंस्यसे, राम ! निर्वृतः । नागाः- गजाः । देवारण्यम् - चैत्ररथादिरूपं नानाप्रकारम् ॥

  • मतङ्गस्य विधानात्

– प्रभावात् नागाः न संचरन्तीत्यर्थ:-ति. मतङ्गस्य ऋषे: विधानात्- निर्माणात्- गो. रा. तन्निर्मितत्वात् — मतङ्गवन मिति विश्रुतमित्यर्थः । , 3 4 1 स्वर्गलोकं - ङ. 2 ततस्त्वं राम- ङ. ३ इदमर्ष कुण्डलितं- ज. ' प्रभावा- ङ. 5 इदमर्ष कुण्डलितं - ङ.