पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कबन्धवृत्तान्तः [अरण्यकाण्ड: यः तं राक्षसं ज्ञास्यति, तेन सहायेनेत्यर्थः । न्यायवृत्तेन- सच्चरित्रेण ॥ ३१-३२ ॥ 498 न हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु, राघव ! सर्वान् 'परिवृतो लोकान् पुराऽसौ * कारणान्तरे || ३३ ॥ इत्याषें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे एकसप्ततितमः सर्गः - असौ- - मया वक्ष्यमाणः । कारणान्तरे – किञ्चिन्निमित्तान्तरे । अलिङ्ग (३३ १/२) मानः सर्गः ॥ ३३१ / २ ।। इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे एकसप्ततितमः सर्गः

  • कारणान्तरे – अत्र किष्कि 10-27 श्लोको द्रष्टव्यः । अत्र गोविन्दराज:-

अयं कबन्ध: रावणमेव न जानाति, सुग्रीवं तु जानाति । किन्तु तन्नाम न कथितवान् । दाहात्पूर्व कथने कुत्सितशरीरदहने रामो वैमनस्यं कुर्यादिति — इत्याह । ' न हि तस्या- स्त्यविदितं 'सर्वान् परिवृतो लोकान्' इत्यादिसुग्रीवस्वरूपं जानतः तन्नामापि अतः तदकथने रामोपेक्षाभयमेव हेतुः स्यादिति भावनया तेन तथा , ज्ञातमेव स्यात् । व्याख्यातं भाति । वस्तुतस्तु - रामेण सीतापहर्तुः रावणस्यैव स्थानादिकं पृष्टंम् (को. २३) । तच तेन न ज्ञातम् । यदि च दिव्यज्ञानेन ज्ञात्वा वक्तव्यं, तर्हि दहनमावश्यकम् । अदग्धस्य तं विशातुं शक्तिर्नास्त्येव । 'दाहानन्तरं यदि दिव्यचक्षुषा शास्यामि, तर्हि वदेयं ' इति कबन्धाशय: । ननु तर्हि 'यस्तां शास्यति तं वक्ष्ये दग्धः स्वं देहमाश्रितः ' इत्युक्तिः कथम् ? इति चेत् - नात्रानयोर्हेतुहेतुमद्भावः विवक्षितः । किन्तु वस्तुस्थिति- कथनमात्रम् । सूर्यास्तमनस्यातिसन्निहितत्वात् ततः पूर्वमेव दाहस्य कर्तव्यस्वेन, बहुवाक्य- प्रतिपादनीयत्वात् विवक्षितांशस्य, अस्तमयात्पूर्व प्रथमं दहनं कुरु ततः तन्मित्रं वक्ष्यामीति यथावस्थितकथनमिदं, न तु सुग्रीववृत्तान्तोऽपि दिव्यज्ञानेनैव वक्तव्यमित्यभि- प्रायः । दहनात् पूर्वमेव किल बहु वक्ष्यति सुग्रीवमधिकृत्यैव । अतः विलम्बासहत्वत एव 'दग्ध: स्वं रूपमास्थितः' इत्युक्ति: । दाहानन्तरं रावणविषयकवृत्तान्ताकथनं तु, तदानी- मप्यज्ञानात्, मित्रद्वारैव कार्यस्य साधनीयत्वनियमज्ञानाद्वा स्यादिति न कोऽपि विरोधः ॥ 1 परिसतो - ङ. V TOY AHAYAMAU