पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्युक्ता संस्कृत: ताभ्यां उत्तस्थौ ज्वलनात्तदा . द्विसप्ततितमः सर्गः [सीताप्राप्त्युपायकथनम् ] एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ । 'गिरि' प्रदरमासाद्य * पावकं विससर्जतुः ॥ १ ॥ अथ संस्कृतेन स्वरूपं प्रत्यापन्नेन रामस्य मित्रोपदेशः । एवमुक्ता- वित्यादि । प्रदरं-श्वभ्रम् | आसाद्य-प्रापथ्य | कबन्धमिति शेषः ॥१॥ लक्ष्मणस्तु महोल्काभिः ज्वलिताभिः समन्ततः । चितामादीपयामास स प्रजज्वाल सर्वतः ॥ २ ॥ तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् । मेदसा 'पच्यमानस्य मन्दं दहति पावकः ॥ ३ ॥ स विधूय चितामाशु विधूमोऽग्निरिवोत्थितः । विरजे वाससी बिभ्रत् मालां दिव्यां महाबलः ॥ ४ ॥ विरजे-विरजस्के इति यावत् ॥ ४ ॥ ततश्चिताया वेगेन भास्वरो विमलाम्बरः । उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः ॥ ५ ॥ (301 चिताया उत्पपातेति अन्वयः । सर्वेषु प्रत्यङ्गेषु करचरणादिषु भूषणं यस्य स तथा ॥ ५ ॥ ७२ सर्ग:] 499 आसाथ-प्राप्य, तत्र चितां निर्मायेति, कबन्धशरीरं संस्थाप्थ चेति शेष:- रा. झ पुस्तके पतत्स्थाने -“न्यायेन कृत्वा महतीं चितां गिरिगुपमाम् । ततः कबन्धमारोप्य चितां ज्वलितचेतसौ । बाहू च सुमहाबाहू योजनायतविभ्रमौ ॥” इति दृश्यते । 2 एतदनन्तरं झ पुस्तके - अधिकं— “तां प्रेक्ष्य सर्वतो दीप्तां चितां दृढधनुर्धरः । उत्स्मयान इदं वाक्यं राघवं लक्ष्मणोऽब्रवीत् ॥ दग्धो जटायुः पूर्व तु सीतामन्वेषता त्वया । तु अयं द्वितीयो निर्दग्धः तृतीयं किं नु वक्ष्यसि ॥ महाभ्रशिखर प्रख्यं कबन्धमनलो मद्दान् । अन्तरिक्षं महक्कामि: आवृणोत् स सहस्रशः ॥” इति दृश्यते । 3 दयमानस्य-ड.. ^ विरजाम्बर:- ज. 32*