पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

496 कबन्धवृत्तान्तः नाममात्रं तु जानामि न रूपं तस्य रक्षसः | निवास वा प्रभाव वा वयं तस्य * न विद्महे ।। २२ ।। नाममात्रमिति | आप्तवाक्यादिति शेषः ॥ २२ ॥ [अरण्यकाण्ड: शोकार्तानामनाथानां एवं विपरिधावताम् । कारुण्यं सदृशं कर्तुं ' उपकारेण वर्तताम् || २३ ॥ उपकारेण वर्तता वर्तमानानां अस्माकं सदृशं - उचितं कारुण्य – अनुग्रहं कर्तुमर्हसि ॥ २३ ॥ - काष्ठान्यादाय शुष्काणि काले भग्नानि कुञ्जरैः । धक्ष्यामस्त्वां वयं, वीर ! वभ्रे महति कल्पिते ॥ २४ ॥ दाइसिद्धिविषये त्वया चिन्ता न कार्येत्याह-काष्ठानीति । करिश्ते – सज्जे ॥ २४ ॥ स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता । कुरु कल्पाणमत्यर्थं यदि जानासि तत्वतः ॥ २५ ॥ कल्याणं-तत्त्वाख्यानरूपमित्यर्थः ।। १५ ।। एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् । प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम् ॥ २६ ॥

  • न विद्महे, अहं मत्परिजनाश्चेत्यर्थ:- गो. वस्तुत: लोकोक्तया बहुवचनम् । अत

एवोत्तरश्लोकेष्वपि बहुवचनम् + जटायुवचनादिति यावत् । + उपकारेण तव निजरूप- प्राप्त्यर्थेन । § वक्तारमपि राघवं बक्तुं कुशल:- गो. एवं इत्यस्यावृत्या एवं वक्तारमपि राघवं उवाच । राघववचसः साक्षादुत्तरदानेऽशक्त्या मध्ये स्वयमेवैवमाहेति वा । उपकारे च-ङ..