पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१ संर्ग:] शापान्मुनेः शक्रकोपात् एवं प्राप्त: कबन्धताम् 495 अपि च इन्द्रवाक्यविश्वासात् ऋषिवाक्यविश्वासाच्च अवश्यं रामो मम हस्ते ग्रहणमुपैष्यतीति मन्ये - जानामि । यदेवमतः- इमामित्यादि । त्वदेकसाध्या मद्गतिः इत्युक्तरूपिणीमिमां बुद्धिं पुरस्कृत्य स त्वं राम ! मम देहन्यासे–देहपरित्यागे कृतश्रमः- कृतयलः भव, ते भद्रमस्तु । अपि च त्वयैव उक्तयत्नः कर्तव्यः । कथं ? हे राघव ! अहं अन्येन – त्वद्यतिरिक्तेन केनापि न हन्तुं शक्यः इति यथातत्त्वं परमार्थतत्त्वमेव महर्षिणा उक्तोऽस्मि ॥ १७-१८॥

अहं हि * मतिसाचिव्यं करिष्यामि, नरर्षभ । मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना ॥ १९ ॥ ननु किमर्थः त्वद्देहत्यागयलो ममेत्यत्राह - अहं हीति । अपि च तद्विषयं मित्रं साचिव्यं— बुद्धिसाहाय्यं करिष्यामि, चोपदेक्ष्यामि, अपि तु युवाभ्यां वह्निना संस्कृतोऽपि भवेयम् ॥ १९ ॥ - एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः । 1 इदं जगाद वचनं ' लक्ष्मणस्योपशृण्वतः || २० ।। एवं मतिसाचिव्यमुक्तो रामस्तु, दहनमपि करिष्ये, मम साचिव्यं कुरु, दग्धेन त्वया अशक्यवादादित्याशयेनाह– एवमुक्तः इत्यादि । दनुना – दनुसुतेनेत्यर्थः ॥ २० ॥ रावणेन हृता भार्या मम सीता यशस्विनी । निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम् ॥ २१ ॥ यथासुखं हृतेत्यन्वयः ॥ २१ ॥

  • स्वस्य गमनशक्तेरभावादाह –मतिसात्चिव्यमिति । + ' युवाभ्यां संस्कृत:

मतिसाचिव्यादिकं करोमि' इति तेनोक्ते, दाहानन्तरं कथमयं ब्रूयादिति मन्वानो रामः दाहात्पूर्वमेव तत् पृच्छतीत्यर्थः । सोऽप्युचितं उत्तरं दास्यति - उत्तरत्र २७-२८ श्लोकयोः । + यथासुखं निष्क्रान्तस्य-गो. लक्ष्मणस्य च पश्यतः-ज.