पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

494 कबन्धवृत्तान्तः ren एवमुक्तस्तु मे शक्रः बाहू योजनमायतौ । 'प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् ॥ १३ ॥ भने सक्थिनी शिरोघरा च यस्य स तथा । कुक्षाविति । तत्स्थमुख इत्यर्थः ॥ १२-१३ ॥ [अरण्यकाण्ड: सोऽहं भुजाभ्यां दीर्घाभ्यां 'विकृष्यास्मिन् वने चरान् । सिंह द्विपमृगव्याघ्रान् भक्षयामि समन्ततः ॥ १४ ॥ नरान् - संचारवतः ।। १४ ।। - स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः । छेत्स्यते समरे बाहू तदा स्वर्ग गमिष्यसि ।। १५ ।। अनेन वपुषा, 8 राम ! वनेऽस्मिन्, राजसत्तम ! यद्यत् पश्यामि' सर्वस्य ग्रहणं साधु रोचये ॥ १६ ॥ सर्वस्य ग्रहणं साधु रोचये-न किञ्चिदपि मक्ष्याभक्ष्यबुद्ध्या त्यजेयमित्यर्थः ॥ १६ ॥ + अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति ।

  • इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः ॥ १७ ॥

स त्वं रामोऽसि, भद्रं ते, नाहमन्येन, राघव । शक्यो हन्तुं यथातवं एवमुक्तो महर्षिणा ॥ १८ ॥

  • इदं उरसि चक्षुषोऽप्युपलक्षणम् पूर्वसर्गे हि १९ श्लोके तथोक्तम् ।

+ सर्वस्य ग्रहणे हेतुः – अवश्यमिति - रा. एवं सर्वस्यापि प्राप्तस्य ग्रहणाभावे, कतिपय- परित्यागे च, अकस्मात् रामोऽपि न गृहीत: स्यात्, अतश्च तेन बाहुच्छेदोऽपि न स्यादिति + इमां बुद्धि पुरस्कृत्य देहन्यासे कृतश्रमो भवामि — विकृतदेहत्यागे कृतोद्योगो भवामि-गो. देहन्यासाय सर्वान् पीडयन् जागरूको वर्ते, तदा हि रामेण बाहुच्छेद: स्यादिति भावः । कतकदृष्टया तु इमामित्यादि उत्तरान्वयि । भावः । 1 समाकृष्य-ङ, संक्षिप्यास्मिन्-ज. 2 द्वीपि-ज. 3 तात-ज. 4 रघुसत्तम- ङ. 5 सर्वत्र ङ.