पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९ सर्गः] प्रेक्षेतां राक्षसी मूर्ति विकृतां घोरदर्शनाम् ततः पूर्वेण तो गत्वा त्रिकोशं भ्रातरौ तदा ।

  • क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रम मन्तरे || ८ ||

दृष्ट्वा तु तद्वनं घोरं बहुभीममृगद्विजम् । नाना सत्त्वसमाकीर्ण सर्वं गहनपादपम् ।। ९ ।। दहशाते ' तु तौ तत्र दरीं दशरथात्मजौ । पातालसमगम्भीरां तमसा नित्यसंवृताम् ॥ १० ॥ ततः पूर्वेणेति, कोञ्चारण्यात् पूर्वदिगाश्रयेणेत्यर्थः । क्रौञ्चारण्य- मतिक्रम्य गच्छन्तौ अन्तरे- मध्यमार्ग मतङ्गाश्रमं दृष्ट्वा, अथ घोरं अन्यद्वनं दहशाते । सर्व-कृत्स्नं । तद्ने उच्यमानविशेषणां दरीं च दहशाते ।। १० ।। 477 आसाद्य तौ नरव्याघ्रौ दर्यास्तस्याविदूरतः । दहशाते महारूपां राक्षसीं 'विकृताननाम् ॥ ११ ॥ अथ तौ दर्शनासाद्य, तस्याविदूरतः इति संधिः छान्दसः तस्याः दर्याः समीपे इत्यर्थः ॥ ११ ॥ भयदामल्पसच्चानां वीभत्सां रौद्रदर्शनाम् । लम्बोदरीं तीक्ष्णदंष्ट्रां करालां परुषत्वचम् ।। १२ । भक्षयन्तीं मृगान् भीमान् विकटां मुक्तमूर्धजाम् । प्रेक्षेतां तौ ततस्तत्र भ्रातरौ रामलक्ष्मणौ ॥ १३ ।।

  • क्रौञ्चारण्यमतिक्रम्य मतज्ञाश्रमं पूर्वेण - मतङ्गाश्रम पूर्वदिग्भागे, एनपा

द्वितीया' इति द्वितीया; त्रिक्रोशं गत्वा अन्तरे -मतङ्गाश्रमकौञ्चारण्ययोर्मध्ये तद्वनं मतङ्गाश्रमसम्बन्धिकिञ्चिद्वनं दृष्ट्वा - गो. लोकत्रयमेकान्वयम् । ↑ अपसवानां--- दुर्बलानाम् । 2 वृक्ष मृगाकीर्ण-ङ. 3 गिरो-ज.

  • विकृतेक्षणाम् ङ.

मन्तरा-ङ.