पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३ सर्ग:]
17
अथ तौ आतरौ तस्मिन् शरवर्षे ववर्षतुः



तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः ।
राक्षसं विकृताकारं विराधं पापचेतसम् ॥ ८ ॥
क्षुद्र ! धिक् त्वां तु [१] । होनार्थं मृत्युमन्वेषसे ध्रुवम् 1
रणे संप्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यसि ॥ ९ ॥

 क्षुद्र धिक् त्वामिति । एवं विकारहेतुः --हीनार्थमिति । परदार स्पर्शलक्षणजुगुप्सितव्यापारवृत्तमिति यावत् । मृत्युमन्वेषसे ध्रुवमिति । उक्तदुष्कर्मवशादिति शेषः । च मृत्युं रणे संप्राप्स्यसे । मे पुरतः क्षणं तिष्ठ । स त्वं जीवन् भूत्वा न गमिष्यसि ॥ ९ ॥

ततः सज्यं धनुः कृत्वा रामः सुनिशितान् शरान् ।
सुशीघ्रमभिसन्धाय राक्षसं निजघान ह ॥ १० ॥
धनुषा ज्यागुणवता सप्तवाणान् मुमोच ह ।
रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान् ॥ ११ ॥

 ततः सज्यमित्याद्युक्त श्लोकस्यैव विवरणं - धनुषेत्यादि । ज्यागुण:- ज्या रूपरज्जुः । सुपर्णानिलाभ्यां तुल्यं गच्छन्तीति तथा; डोऽन्यत्रापि ' इति डः ॥ ११ ॥

ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः ।
निपेतुः [२] शोणितादिग्धाः धरण्यां पावकोपमाः ॥ १२

अदिग्धाः इति, अतिशीघ्रादिति शेषः ॥ १२ ॥


बर्हिणवाससः इति । फलबर्हाभ्यां इनज्वक्तव्यः' इति इनच् स्वार्थे छान्दसः [३] बाइति यावत् । शोणितेन रक्तेन आदिग्धा:- इति अतिशीघ्रादिति शेषः ||१२||



|
  1. भवदभिमतं प्रयोजनं न सिद्धयतीति सूचनाय वा हीनार्थमिति
  2. ईपल्लिप्ता :- गो. अच्छेद्यत्वा मे धत्ववरबलात् शस्त्राणां शोणितेन
    अदिश्यत्वं वा विवक्षित स्यात् । वैदेही परित्यागस्तु स्वप्रवृत्तिप्रतिरोधजकोपात् रामलक्ष्मण-
    मपि स्यात् ।
  3. मयूरबर्हान्येव वासांसि-यस्येत्यर्थ:|