पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
16
अरण्यकाण्डः
विराधकदनम्



 ज्वलिताननमिति। राक्षसत्वात् अग्निज्वालयेव ज्वलिताननत्वम् । आत्मनः इक्ष्वाकुकुलं- इक्ष्वाकुवंश्यत्वं उवाचेत्यन्वयः ॥ २ ॥

क्षत्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ ।
त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् ॥ ३ ॥

 तद्वचनध्यैव प्रकारः - क्षत्रिया वित्यादि । वनगोचराविति बहुव्रीहिः । किञ्चिन्निमित्तत इति शेषः ॥ ३ ॥

तमुवाच विराधस्तु रामं सत्यपराक्रमम् ।
हन्त ! वक्ष्यामि ते, राजन् ! निबोध मम, राघव ! ॥ ४ ॥

 मम निबाघेति । मम वचनात् मम स्वरूपमिति शेषः ॥ ४ ॥

पुत्रः किल [१] जयस्याहं मम माता शतदा ।
विराध इति मामाद्दुः पृथिव्यां सर्वराक्षसाः ।। ५ ।।
तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा ।
  [२]शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च || ६ ||
उत्सृज्य प्रमदामेनां अनपेक्षौ यथागतम् ।
त्वरमाणी पलायेतां न वां जीवितमाददे ॥ ७ ॥

 लोके तटस्थप्राणिषु येन केनापि शस्त्रेण-शस्त्रबलेन अवध्यता -अमारणीयता प्राप्ता । अपि च रज्ज्वादिवत् घटादिवद्वा अच्छेद्या- भेद्यत्वं-प्राणवियोजनाय छेद्यभेद्याशक्याशरस्त्वं च प्राप्तमिति विपरिणामः । यदेवं, अतः - उत्सृज्येत्यादि [३]अनपेक्षौ-युद्धाशारहितौ ॥ ७ ॥



  1. जनस्याहं-ज. झ.
  2. प्राणवियोजनफलकच्छेदन भेदना नर्हत्वं विवक्षितम् । अथवा व्रणोत्पादनद्वैधी-
    भावयोः अशक्यत्वं वा विवक्षितम् । न केवलं अवध्यत्वं,अपि तु व्यथाजननमध्यसंभवीति
    भावः
  3. प्रपेक्षारहितौ वा तत्प्राप्तिप्रत्याशारहिताविति यावत् मदा