पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
18
[अरण्यकाण्ड:
विराध कदनम्



स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः |
अभ्यद्रवत् सुसंक्रुद्धः तदा रामं सलक्ष्मणम् ॥ १३ ॥

 स विद्धो न्यस्य वैदेहीमिति । स तु सप्तरामबाणेषु देहं मित्त्वा विनिर्गनेष्वपि शस्त्रेणावध्यत्ववरवैभवात् अगतासुः केवलं व्यथितः, व्यथावशात् वैदेहीं हित्वा शूलमुद्यम्याभ्यद्रवत् । एवं च अच्छेद्याभेद्यत्वमिति अव्यथनीयत्वमि ते यः कश्चिदाह तद्द्व्यर्थम् । व्यथाभाव वैदहीत्यागस्यासंभवात् । शब्दद्वयवैयर्थ्यात्, तथा अर्थे शब्दसामर्थ्याच्च ॥ १३ ॥

सविनय महानादं शूलं शक्रध्वजोपमम् ।
प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः ॥ १४ ॥

 महानादं विनद्येति । महानादं कृत्वेति यावत् । शऋध्वजो- पममित्यनेन शोभावत्त्वं दृष्टिप्रियत्वं च उपलभ्यते । व्यातं- विवृतं आननं यस्य स तथा । अच उपसर्गात्तिः' इति तत्वं ददातेः तादौ किति ॥ १४ ॥

अथ तो भ्रातरौ दीप्तं शरवर्षं ववर्षतुः
विराधे राक्षसे तस्मिन् [१]. कालान्तकयमोपमे ।। १५ ।।

 कालोऽन्तको यमश्चेति प्राण-तनु-मन:- संहारप्रधानं मूर्तित्रय संहाररुद्रस्य, तदुपमः तथा ।। १५ ।।

सप्रहस्य [२] महारौद्रः स्थित्वाऽजृम्भत राक्षसः ।
जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः ॥ १६ ॥



  1. अन्तकः -मृत्युः, काल:- तन्निमित्तं, यमः - तन्नियन्ता-रा. काले-संहारकाले
    अन्तकः-नाशकः यः यम - गो
  2. महारौद्रं - ङ.