पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

464 जटायुदर्शनम् [अरण्याकाण्ड:

2 रामस्तस्य * तु विज्ञाय (बाष्पपूर्णमुखस्तदा । द्विगुणीकृततापार्तः) सीतासक्तां शियां कथाम् । गृध्रराजं परिष्वज्य परित्यज्य महद्धनुः ॥ २१ ॥ 8 निपपातावशो भूमौ रुरोद सहलक्ष्मणः । +द्विगुणीकृततापार्तः रामो धीरतरोऽपि सन् ॥ २२ ॥ तस्य तु विज्ञायेति । स्वरूपमिति शेषः ।। २१-२२ ।। 3 + एकमेकायने कृच्छ्रे निःश्वसन्तं कथञ्चन । समीक्ष्य दुःखिततरः रामः सौमित्रिमब्रवीत् ॥ २३ ॥ एकं-असहायम् । एकायने- एकस्मिन् ऊर्ध्वतालक्षणे अपने- श्वासमार्गे कृच्छ्रे मुहुर्मुहुः निःश्वसन्तम् ॥ २३ ॥ 5 84 राज्याद् भ्रंशो वने वासः सीता नष्टा द्विजो # हतः । ईदृशीयं ममालक्ष्मीः निर्दहेदपि पावकम् || २४ || मम।लक्ष्मीः-~मद्दुष्कर्मबशसंबंधा अलक्ष्मीः-- अश्रीः पावकमपि निर्देहेत्, किमुत मच्छ्रियं दहेदिति ॥ २४ ॥ 6 || संपूर्णमपि चेदद्य प्रतरेयं महोदधिम् । सोऽपि नूनं ममालक्ष्म्या विशुष्येत् सरितांपतिः || २५ ॥

  • तस्य गृध्रस्य सम्बन्धिनी-गो. तस्य तस्मादिति यावत् । + सीताऽप्-

हारत:, जटायुवधाच्च द्विगुणीकृतः तापः । अथवा - आत्मायें प्राणानेव दत्तवति जटायुषि अन्यथाभावनया 'एनं वधिष्ये' (12) इति प्रवृच्या द्विगुणीकृत: ताप: । एकायने - एकपद्यां, एकं असहायं-गो. § यद्यपि ' न चास्य महतीं लक्ष्मी राज्यनाशोऽप- कर्षति ' 'वनवासो महोदयः' इत्यभिमततमतया प्रोक्तो राज्यनाशवनवासौ; तथाऽपि संप्रति सीताविशेषकारित्वात् जटायुवियोगफलकत्वाच्च तात्रेवानर्धकरौ जातौ इत्याह-गो. || 'समुद्रोऽपि जानुदघ्नः पापिन: ' इति लोकोक्तिमनुसृत्येद मुच्यते । 1 अयं भागः कुण्डलितः - ज. सौमित्रिणा सह " - इत्यधिकं - उ. 5: मृतः-ज. "पाथोभिः - ङ, 2 पतदनन्तरं-" 'श्रुत्वा जटायुषो वाक्यं रामः 3 इदमर्ष कुण्डलिसं-ङ. ^ राज्यं भ्रष्टं-ज.