पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७ सगे: ] अपापं तं ततो शात्वा सीतार्थे त्यक्तजीवितम् 465 संपूर्ण महोदधिं दुःखपरितापशान्तये प्रतरेयं – प्लवेयं यद्यपि, तदा सोऽपि सरितां पतिः मम अलक्ष्म्या नूनं विशुष्येत्, मत्तापशान्त्यभाव संपादनायेति शेषः ॥ २५ ॥ नास्त्यभाग्यतरी लोके मत्तोऽस्मिन् सचराचरे । येनेयं महती प्राप्ता मया व्यसनवागुरा ॥ २६ ॥ अयं पितृवयस्यो मे गृध्रराजो जरान्वितः । शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ।। २७ ।। पितुः वयस्यः - सखा ॥ २७ ॥ इत्येवमुक्ता बहुशः राघवः सहलक्ष्मणः । जटायुषं च पस्पर्श पितृस्नेहं विदर्शयन् ॥ २८ ॥ तथा पितरीव स्नेहः पितृस्नेहः ॥ २८ ॥ निकृत्तपक्षं रुधिरावसक्तं स गृध्रराजं 'परिरभ्य रामः । क मैथिली प्राणसमा ममेति 4

  • विमुच्य ' वाचं निपपात भूमौ ॥ २९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे सप्तषष्टितमः सर्गः रोघ(२९)मानः सर्गः ।। २९ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे सप्तषष्टितमः सर्गः

  • विमुच्य – अवशादुच्चार्य ।

1 महाबलः - ज. 2 निदर्शयन्- ज. 5 बाष्प-ड. RAMAYANA - VOL. IV 3 परिगृह्य-ज. ' गतेति-ज. 30