पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७ सर्गः] चचार बोधितस्त्वेवं राम: किंचित् समाहितः सप्तषष्टितमः सर्गः [जटायुर्दर्शनम्] पूर्वजोऽप्युक्त' मात्रस्तु लक्ष्मणेन सुभाषितम् । सारग्राही महासारं प्रतिजग्राह राघवः ।। १ ।। अथ लक्ष्मणवचनात् पुनश्च जनस्थान एव विचिन्वतो गृधराजस्य दर्शनं । पूर्वजोऽपीत्यादि । सुभाषितं-सुभाषितार्थम् ॥१॥ 2 संनिगृह्य महाबाहुः 'प्रवृत्तं कोपमात्मनः । अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ।। २ ।। किं करिष्यावहे ? वत्स ! क्व वा गच्छाव ? लक्ष्मण ! केनोपायेन पश्येयं सीतामिति विचिन्तय ॥ ३ ॥ 4 तं तथा परितापात लक्ष्मणो 'राममब्रवीत् । इदमेव जनस्थानं त्वमन्वेषितुमर्हसि ॥ ४ ॥ राक्षसैः बहुभिः कीर्णं नानाद्रुमलतायुतम् । सन्तीह गिरिदुर्गाणि निर्देशः कन्दराणि च ॥ ५ ॥ गुहाश्व विविधा घोराः नानामृगगणाकुलाः ! आवासाः किन्नराणां च गन्धर्वभवनानि च ॥ ६ ॥ तानि युक्तो मया सार्धं त्वमन्वेषितुमर्हसि । इह गिरिदुर्गाणीति । इह जनस्थाने गिरिगतानि दुर्गाणि - गन्तुमशक्यप्रदेशा इत्यर्थः । निर्दश:- विदीर्णपाषाणाः ॥ ६ ॥ वाक्यस्तु-ज. सुरमुतापमामू-ड. 5 461 2 स निगृा-अ. वाक्य-ज. प्रवृद्धं रोष-ज. 4 सीतां