पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

460 [अरण्यकाण्ड: अनुशिष्यादित्यादि । साक्षाद् बहुशोक्तवान् इति सन्धिरार्षः । बृहस्पतिरपि त्वः त्वां अनुशिष्याद्धि अनुशासितुं शक्तः किम् ? 1 हिशब्दस्वारस्येन न शक्त एवेत्यर्थः । अतो मादृशः को नु त्वा अनुशिष्यात् ? ॥ १७ ॥ लक्ष्मणहितवचनम्

बुद्धिश्च ते, महाप्राज्ञ ! 'देवैरपि * दुरन्वया । शोकेनाभिप्रसुप्तं ते ज्ञानं संबोधयाम्यहम् ॥ १८ ॥ दुरन्वया -- अन्वेतुं गन्तुमशक्या ॥ १८ ॥ दिव्यं च मानुषं च त्वं आत्मनश्च पराक्रमम् । इक्ष्वाकुवृषभावेक्ष्य यतख द्विषतां वधे ॥ १९ ॥ दिव्यं—देवोचितम् । मानुषं मनुष्योचितम् । देवोचितपराक्रमः परशुरामादिविषयः, अन्यः रक्षोविषयः ।। १९ ।। Trans किं ते सर्वविनाशेन कृतेन, पुरुषर्षभ ! तमेव त्वं रिपुं पापं विज्ञायो #द्वर्तुमर्हसि ।। २० ।। इत्यापें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे षट्षष्टितमः सर्गः - सर्वेषां विनाशः - सर्वविनाशः । कृतेन-अनुष्ठितेन । नारी (२०) मानः सर्गः ॥ २० ॥ इति श्रीमद्रामायणामृतकतकडी कायां अरण्यकाण्डे षट्षष्टितमः सर्ग: सर्वलो कसंहारसमर्थ आत्मनः इक्ष्वाकुवृषभ इति सम्बुद्धिः ।

  • दुरन्वया - शातुमशक्या-गो. + दिव्यं दिविभवं प्राणिजातं देवगन्धर्वा -

दिकं, तच्च सात्त्विकं वधानहै; मानुषं-मनुष्यलोकोद्भवं ब्राह्मणादिकं तदपि वधानई; पराक्रमं च अवेश्य-विचार्य द्विषतामेव वधे यतस्व-गो. उद्धर्तु-नाशितुं - गो. 2 रूपं - ङ, ! लोकैरपि- ङ. AM