पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यमानुषसखानि माssत्मनो विस्मर प्रभो ! अदृष्टगुणदोषाणां अधृतानां च कर्मणाम् ।

  • नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते ॥ १६ ॥

६६ सर्गः] अथ निर्हेतुक कार्यायोगात् एवं दुःखमूलं प्राचीनं दुरदृष्टं बुद्ध्या अनुचिन्त्य सोढा स्थातव्यमित्याह - अदृष्टेत्यादि । शास्त्रक- समधिगम्यतया प्रत्यक्षतो द्रष्टुमशक्यगुणत्वदोषत्वानां शुभाशुभत्वानां च अघृतानां--पुरा एवमेव कर्म कृतमिति निश्चेतुमशक्यानां कर्मणां निष्पत्तिः क्रियामन्तरेण -- तत्तत्पुरुषव्यापारमन्तरेण न भवति । तथाहि अविष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविघाश्च पृथक्चेष्टाः दैवं चैवात्र पञ्चमम्। शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः न्याय्यं वा विपरीतं वा पञ्चैले तस्य हेतवः । इति । 66 459 अथ स्वसम्पादितानां तेषां कर्मणां इष्टं फलं, चात् अनिष्टंच सर्वथा प्रवर्तते--प्रवर्तेतैव, अतः सोढव्यमिति शेषः ॥ १६ ॥ "मामेवं हि पुरा' राम! त्वमेव बहुशोक्तवान् । अनुशिष्याद्धि को नु त्वां अपि साक्षात् बृहस्पतिः ? ।। इयं च बुद्धिः त्वइत्तैव मे, अतो न मया त्वदनवगतार्थ उपदिश्यते इत्याह -मामेवमित्यादि । क्रोधवशमापन्नमिति शेषः ।

  • कर्मणां ष्टं फलं क्रियां- अनुष्ठानमन्तरेण न प्रवर्तते--पूर्वकर्मानुष्ठानं विना

इदानीं फलं नोत्पद्यते-गो. अथवा तेषां कर्मणां कियां स्वफलकरणमन्तरेण इष्टं- सम्मतं फलं अन्यत् फलं न प्रवर्तते । अस्य कर्मणः इदं फलमिति शास्त्रसम्मत फळकरणमन्तरेण अन्यत् फलं नहि भवितुं शक्यमिति भावः । 'नामुक्तं क्षीयते कर्म कसकोटिशतैरापि' इति भावः । त्वमेव - ङ. अश्रुतानां - ङ. अध्रुवाणां-ज. 2 वीर-ज. मामेवं-उ..