पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

424 रामविलाप: [अरण्यकाण्ड: द्विषष्टितमः सर्गः [रामविलापः] सीतामपश्यन् *धर्मात्मा ' कामोपहतचेतनः विललाप महाबाहुः रामः कमललोचनः ।। १ ।। · यो हि बीजफलं भुङ्के संसारी सकलोऽपि च "(१) अतः पुनश्चविलापः सीतामपश्यन्नित्यादि ॥ १ ॥ पश्यन्निव स तां सीतां अपश्यन् मदनार्दितः । उवाच राघवो वाक्यं विलापाश्रयदुर्वचम् ॥ २ ॥ 2 पश्यन्निवोवाचेति । मोहजतया प्रतिभासवशादिति शेषः । २ ॥ त्वमशोकस्य शाखाभिः पुष्पप्रियतया, प्रिये ।

  1. आवृणोषि शरीरं ते मम शोकविवर्धनी ॥ ३ ॥

कदली काण्डसदृशौ कदल्या संवृतावुभौ । ऊरू पश्यामि ते, देवि ! नासि शक्ता निगृहितम् ॥ ४ ॥ कर्णिकारवनं, भद्रे ! हसन्ती, देवि ! सेवसे । अलं ते परिहासेन मम बाधावहेन वै ॥ ५ ॥ ^परिहासेन किं, सीते! परिश्रान्तस्य मे, प्रिये ! अयं स परिहासोऽपि साधु, देवि ! न रोचते ॥ ६॥

  • धर्मात्मा, कामोपहतचेतन इत्याभ्यां वर्माविरुद्ध कामस्या निन्द्यस्वमुक्तं- गो.

+ पुरोवर्तित्वाभावेन सीतामपश्यन्नपि मदनार्दित: मदनपरवश: तां पश्यन्निव संबोध्योवाच । तदाक्यं विलापाश्रयत्वेन दुर्वचं, गद्गदकण्ठत्वादिति भावः । यद्वा विलाप- सम्बन्धात् अस्माभिः वक्तुमशक्यम्, अनुवदितुमशक्यमित्यर्थ:- गो. किं तेनावरणेन ? मया दृष्टत्वादिति भाव:- गो. + आवृणोषि शोको-ज. विरहा-ङ. स्कन्ध- ङ. अयं श्लोक: कुण्डलित:-ज.