पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उक्तोऽप्येवं न तत्याज स सीता, बेरहव्यथाम् विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते । अवगच्छामि ते शीलं परिहासप्रियं, प्रिये ! ॥ ७ ॥ ६२ सर्ग:]] 425

आगच्छ त्वं, विशालाक्षि ! शून्योऽयमुटजस्तव ।

  • सुव्यक्तं राक्षसैः सीता भक्षिता वा हतापि वा ॥ ८ ॥

न हि सा विलपन्तं मां उपसंप्रेति, लक्ष्मण । विवेकपूर्ववचनं सुव्यक्तं राक्षसैरित्यादि । उपसंप्रति उ संप्राप्नोति । उपेक्षतेऽपि चे(उपेक्षितेऽपि वे)त्यर्थः ॥ ८ ॥ -उप- एतानि मृगयूथानि साश्रुनेत्राणि, लक्ष्मण ॥ ९ ॥ शंसन्तीव हि वैदेहीं भक्षितां रजनीचरैः । हा ममायें ! क्व याताऽसि ? हा साध्वि ! वरवर्णिनि ! ॥१०॥ हा सकामा त्वया, देवि ! कैकेयी सा भविष्यति । सीतया सह निर्यातः विना सीतामुपागतः ।।११।। कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं पुनः १ । निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति ॥ १२ ॥ + कातरत्वं प्रकाशं हि सीतापनयनेन मे । सकामा त्वयेति, भक्षितयेति शेषः । कातरत्वं-अधीरत्वं, सीतापनयनेन-सीताविनाशनेनेत्यर्थः ॥ १२ ॥

  • लक्ष्मणं प्रत्याह - सुम्यक्तमित्यादि । + त्वां विना यतोऽहं म्रियेय - अतः

कैकेयी सकामा भविष्यतीत्यर्थः । कथञ्चित् जीवनेऽपि कथं अयोध्यां गच्छेयं इत्याह-- सीतयेत्यादि । कातरत्वं — अधीरत्व, जीवितधारणाशक्तेरिति भावः - गो. वस्तुतस्तु- भार्यायामपहृतायामपि, केवलस्वरक्षणदृष्टया पलाय्यागतं मां जानीयुरिति भावः । 1 मम-ज.