पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
312
[अरण्यकाण्ड:
रावणप्रवेश:

तामपश्यत् ततो चालां [१]रामपत्नीं यशस्विनीम् ।
[२] रोहिणीं शशिना हीनां ग्रहवत् भृशदारुणः ॥ ५ ॥

 ग्रहवत् – हन्तुका ब्रह्म जोमुखमूत विशेषवत् ॥ ५ ॥

[३] तमुग्रं पापकर्माणं जनस्थान रुहा द्रुमाः ।
समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः ॥ ६ ॥
शीघ्रस्रोताच तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ।
[४] स्तिमितं गन्तुमारेभे भयागोदावरी नदी ॥ ७ ॥

शीघ्रस्र गः- शीघ्र नवाहाः । वीक्षन्तं - वीक्षमाणम् । भयादिति । तत्सन्निधानेनेति शेषः ॥ ७ ॥

रामस्य त्वन्तरप्रेप्स: [५]दशग्रीवस्तदन्तरे ।
उपतस्थे च वैदहीं भिक्षुरूपेण रावणः ॥ ८ ॥

 अन्तरं — अपकारयोग्यं छिद्रम् । तदन्तरे-- उभयविरहित- देशकाले ॥ ८ ॥

अभब्यो भव्यरूपेण भर्तारमनुशोचतीम्
अभ्यवर्तत वैदहीं चित्रामिव शनैश्चरः ।। ९ ।।

 चित्रां-चित्रानक्षत्रम् । अभव्यः - अक्षमरूपः ॥ ९ ॥

[६] स पापो भव्यरूपेण तृणैः कूप इवावृतः ।
[७] अतिष्ठत् प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् [८] ।। १० ।।


  1. राजपुत्रीं- ज.
  2. ग्रहः - अङ्गारकः शनैश्वरो वा। रोहिण्या: क्रूरग्रहवीक्षणं लोकानर्थकरम्- गो.
  3. तमुग्रतेज: कर्माणं-ङ..
  4. स्तिमिता - ङ.
  5. दशग्रीवो महाबल:- ङ.
  6. सहा- ज.
  7. अतिष्ठत् –तस्सन्निधाबुराबेशत्-रा.परन्तु 'अभ्यगच्छत' इति पुरतो दर्शनात्
    ऋपक्रमश उपसर्पर्ण एमि: क्रियापदैर्वर्ण्यत इति प्रतिभाति ।
  8. एतदनन्तरं "निष्ठन् संप्रेक्ष्य च तदा पत्नी रामस्य रावणः ॥” इत्यधि-ङ. ज.