एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६ सर्गः )
313
पतस्याः वृतान्तान् कामुको वर्णयंश्च ताम्
शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् ।
आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् || ११ ।।
स तां पद्मपलाशाक्ष पीतकौशेयवासिनीम् ।
अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः ।। १२ ।।
पीतकौशेयवासिनीं इति । णिन्यन्तत्वात् ङीप् ।। १२ ।।
ब्रह्मघोषं-वेदघोषं ब्राह्मणत्वप्रत्यभिज्ञानार्थं उदीरयन् ॥ १३ ॥
प्रशशंस हेत्यस्यैव प्रपञ्चः - एतावित्यादि । संप्रगल्भितौ- संजातप्रागल्भ्यौ । मणिप्रवेकः- मणिश्रेष्ठः ॥ १५ ॥
चारुस्मिते! चारुदति ! चारुनेत्रे ! विलासिनि ! ॥ १६ ॥
मनो हरसि मे, [७]कान्ते ! नदी कूलमिवाम्भसा |
नदी कर्त्री, कूलं- स्वकूलम् ॥ १६ ॥