पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६ सर्म:]
311
क्षणादेवाभ्यगात् सीतां रावणो यतिरूप

षट्चत्वारिंशः सर्गः

[ रावणप्रवेशः ]

[१]तया परुषमुक्तस्तु कुपितो राघवानुजः ।
सी[२] विकांक्षन् भृशं रामं प्रतस्थे न चिरादिव ॥ १ ॥

 एवं लक्ष्मणे निष्क्रान्ते निःशङ्कं आश्रमं प्रविष्टस्य रावणस्य सीतया सह संभाषणम् । तथेत्यादि । न चिरादिव-शीघ्रमेवेत्यर्थः । विकांक्षन्-विशेषेण कांक्षमाण इति यावत् ॥ १ ॥

तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः [३]
अभिचक्राम वैदेहीं परिव्राजकरूपधृत् ॥ २ ॥

 अन्तरं - - अवकाशम् ॥ २॥

[४]लक्ष्णकाषायसंवीतः शिखी छत्री उपानही ।
वामे चांसेऽवसज्याथ शुभे [५] यष्टिकमण्डलू ।
परिव्राजकरूपेण वैदेहीं समुपागमत् || ३ ||

 शिखी उपानहीति त्रीह्यादित्वादिनिः । यष्टि:- त्रिदण्डः ॥ ३ ॥

तामाससादातिबलः भ्रातृभ्यां रहितां वने ।
रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तम इत्यभूतोपमा, सन्ध्यायां महतस्तमसोऽसंभवात-गो, महत्तमः ॥ ४ ॥

 भ्रातृभ्यां - परस्परभ्रातृभ्यां रामलक्ष्मणाभ्याम् ॥ ४ ॥


  1. अथ सीताया: लक्ष्मणविषयकपरुषभाषणफलं दर्शयस्येकादशभिः सगैं:- गो.
  2. विकाङ्क्षन्— अनिच्छन्नेव- गो.
  3. आस्थितः अवकाशं प्रतीक्षमाणः स्थितः दशग्रीवः सदेव अन्तरं - अवकाशं आसाथ- गो.
  4. पूर्वश्लोकस्यैव विवरणमिदम् ।
  5. दण्ड-ङ,