पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
310
[अरण्यकाण्ड:
लक्ष्मणापसरणम्

पिचाम्यहं विषं तीक्ष्णं [१] [२]वेक्ष्यामि हुताशनम् ।
न त्वहं राघवादन्यं कबाइजि.ज.पदाऽपि पुरुषं स्पृशे ॥ ३७॥
॥ इति लक्ष्मणमाक्रुश्य सीता [३]दुःखसमन्विता ।
पाणिभ्यां रुदती दुःखात् उदरं प्रजघान ह || ३८ ॥

 दुःखं- - सकल करणपरितापः, शोकस्तु मानसं दैन्यम् ॥ ३८ ॥

तामार्तरूपां विमना रुदन्तीं
सौमित्रिरालोक्य विशालनेत्राम् ।
आश्वासयामास न चैव भर्तुः
तं भ्रातरं किंचिदुवाच सीता ॥ ३९ ॥

 भर्तुः भ्रातरं न किञ्चिदुवाचेति । आश्वासनव्याजेन गमन- विलम्ब करोतीति कोपेनेति शेषः ।। ३९ ।।

[४]ततस्तु सीतामभिवाद्य लक्ष्मणः
कृताञ्जलिः किञ्चिदभिप्रणम्य च ।
अन्वीक्षमाणो बहुशश्च मैथिली
जगाम रामस्य समीपमात्मवान् ॥ ४० ॥

इत्यायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः

मौन (४०) मानः सर्गः ॥ ४० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः


  1. अत्र वाशब्दानुत्तया, साक्षाद्रावणगृहं न गमिष्यामि, किन्त्वहं स्वरूपेणामौ स्थित्वा माययैव तद्धस्तं गमिष्यामिति ध्वनितम् । तदुक्तं कूर्मपुराणे “इति वह्वयष्टकं जप्त्वा रामपनी यशस्विनी । अध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा । अथावसध्यात्प्र भगवान् हव्यवाहो महेश्वरः । आविरासीत् सुदीप्तात्मा तेजसा निर्दहन्निव । सड्डा मायामयी सीतां स रावणवधेच्छया। सीतामादाय रामेष्टां पावकोऽन्तरधीयत ॥” इति-ति.
  2. कबाइजि.ज.
  3. शोक-ज.
  4. ततः एवं उदरात पूर्वक दिनादिदर्शनात सीनाया अनाश्वासनीयस्वनिमयानन्तरम् ।