पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५ सर्ग:]
309
अबाध्यसौ निर्गमितः सीतया परुषोक्तिभिड

 अत्र स्त्रीत्वादित्यर्थं त्यक्ता गच्छन्ति केचित् । योजनं तु – स्त्रीत्वात दुष्टस्वभावेन कार्येणोपलक्षिता सती त्वं गुरुवाक्ये - ज्येष्ठ नियोगे त्वद्रक्षणविषयके व्यवस्थितं मामध्येवं शङ्कसे इति पूर्वान्वयेन ॥ ३२ ॥

गमिष्ये यत्र काकुस्थः स्वस्ति तेऽस्तु, वरानने !
रक्षन्तु त्वां, विशालाक्षि ! समग्राः वनदेवताः ॥ ३३ ॥
निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ।
अपि त्वां सह रामेण पश्येयं पुनरागतः [१] ॥ ३४ ॥

 घोराणि यानि निमित्तानि मे प्रादुर्भवन्ति, तैः त्वदुपलवं शङ्कमानोऽहं रामेण सह पुनरागतः त्वां पश्येयमपि, तदपि संभवेत् किं ? ॥ ३४ ॥

लक्ष्मणेनैवमुक्ता सा रुदन्ती जनकात्मजा ।
प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिश्रुता ।। ३५ ।।

 अथ प्रतिष्ठासुना लक्ष्मणेन अन्यपुरुषसङ्गप्रसङ्गः शङ्कयते इति मन्यमानया स्वधीदा प्रकाश्यते -लक्ष्मणेनेत्यादि [२]॥ ३५ ।।

गोदावरीं प्रवेक्ष्यामि [३]विना रामेण, लक्ष्मण !
आबन्धिष्येऽथ वा त्यक्ष्ये विषमे देहमात्मनः || ३६ ॥

 आबन्धिष्ये इति। रज्जुमिति शेषः । विषमे इति । भृग्वादि- विषमस्थले पातेनेति शेषः ॥ ३६॥


  1. पतदनन्तरं-"न वेत्येतन जानामि वैदेवि ! जनकात्मजे ! " -इत्यधिकं - कु.
  2. इत्यादिलक्ष्मणवचनदर्शनेन, लक्ष्मणस्य ३९ श्लोके 'आश्वासयामास ' इति
  3. हीना-ज.