पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
308
बरण्यकाण्ड:
लक्ष्मणापसरणम्

इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ।
अब्रवील्लक्ष्मणः सतां प्राञ्जलिर्विजितेन्द्रियः [१] ॥ २७ ॥
उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ।
वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु, मैथिलि ! ॥ २८ ॥

 अप्रतिरूपम् । अत्यन्तानुचितमित्यर्थः ॥ २८ ॥

स्वभावस्त्वेष नारीणां एवं लोकेषु दृश्यते ।
विमुक्तधर्माश्चपलाः तीक्ष्णाः भेदकराः स्त्रियः ॥ २९ ॥

 भेदकराः इति । सुतात् पितृमात्र/देरिति शेषः ॥ २९ ॥

न सहे हीदृशं वाक्यं वैदेहि, जनकात्मजे !
श्रोत्रयोरुभयोर्मेऽद्य तप्तनाराचसंनिभम् ।। ३० ।।
उपशृण्वन्तु मे सर्वे साक्षिभृताः वनेचराः ।
न्यायवादी [२]यथाऽन्यायमुक्तोऽहं परुषं त्वया । ३१ ॥

 वनेचराः इति । देवा इति शेषः । तमुपशृण्वन्त्विति योजना ॥ ३१ ॥

धिक्! त्वां अद्य [३] विनश्यन्तीं यन्मामेवं विशङ्कसे ।
[४] स्त्रीत्वात् दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् ॥ ३२ ॥

 धिगिति । यस्मात् मामपि एवं वाचामगोचरदुर्भाववन्तं विशङ्कसे, तत एव दोषात् अद्य विनश्यन्ती - विनशिष्यन्ती आसन्नानथ त्वां धिक् । अतः परं "स्त्रीत्वात् दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् । गमिष्ये यत्र काकुत्स्थः" इति पाङ्कः ।


  1. सीतयाऽऽपादितदोषाभावं वदति - विजितेन्द्रिय इति ।
  2. यथावाक्यं-ज.
  3. प्रणश्य स्वं-ड..
  4. स्त्रीत्वं दुष्टंङ