पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५ सगे:]
307
स तामाश्वासयव, भतुः वीर्य आशां च वर्णयन्

लक्ष्मणेनैवमुक्ता सा क्रुद्धा संरक्तलोचना ।
अब्रवीत् परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ॥ २० ॥
[१] [२] अनार्य करुणारम्भ ! नृशंस ! कुलपांसन !
॥ अहं तव प्रियं मन्ये रामस्य व्यसनं महत् ।। २१ ।।
रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे

 अनार्यकरुणारम्भेति पाः । विपरीतार्थाभिसंघितस्त्वं-अनार्यया – कुत्सितया करुणया भ्रातृविषयया आरम्भः – सेवाप्रवृत्तिः बस्य स तथा। तेनेति । रामव्यसनस्य प्रियत्वेन हेतुनेत्यर्थः ॥२१॥

नैतच्चित्रं सपत्लेषु पापं, लक्ष्मण ! यद्भवेत् || २२ ||
त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु |

 सपलेष्विति । ज्ञातिष्वित्यर्थः ॥ २२ ॥

[३] सुदुष्टस्त्वं वने रामं एकमेकोऽनुगच्छसि ॥ २३ ॥
मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ।
तन्न सिद्ध्यति, सौमित्रे ! तव वा भरतस्य वा ॥ २४ ॥

 तन्न सिद्ध्यतीति । मत्परिग्रह इत्यर्थः ॥ २४ ॥

कथमिन्दीवरश्यामं पद्मपत्रनिभेक्षणम् ।
उपसंश्रित्य भर्तारं [४] कामयेयं [५] पृथग्जनम् ॥ २५ ॥
समक्षं तत्र, सौमित्रे ! प्राणांस्त्यक्ष्ये न संशयः ।
रामं विना क्षणमपि न हि जीवामि भूतले ।। २६ ।।


  1. अनार्य-दुश्शील, अकरुणारम्भ -- दयाप्रसक्तिरहित - गो. रामस्य प्राप्तं महद् व्यसनं तव प्रियमेव स्यादित्यहं मन्ये इत्यन्वयः ।
  2. अनार्याकरुणा- ङ.
  3. 'प्रच्छन्न चारिषु' इति पूर्वोकोक्तं विवृणोति – सुदुष्ट इति ।
  4. कामये पामरं जनम्-ड..
  5. पृथग्जनं क्षुद्रपुरुषं- गो.