पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४ सर्ग:]
299
एवमादिश्य बासि अमुषव्यावधीमृगम्

अतिवृत्त [१]मिषोः पातात् लोभयानं [२] कदाचन ॥ ५ ॥
[३] शङ्कितं तु समुझान्तं उत्पतन्तमिवाम्बरे ।

 अतिवृत्तं - अतिक्रान्तं । कदाचन इषुपातात् शङ्कितम् ॥ ५ ॥

दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित् || ६ ||
छन्नाम्रैरिव संवीतं शारदं चन्द्रमण्डलम् ।

 वनोद्देशे दृश्यमानत्वात् छन्ना अदृश्यमानचन्द्रदृष्टान्तः॥ ६ ॥

[४] मुहूर्तादेव दहशे मुहुर्दूगत् प्रकाशते ।। ७ ।।
दर्शनादर्शनादेवं सोऽपाकर्पत राघवम्
सुदूरमाश्रमस्यास्य मारीचो [५] मृगतां गतः ॥ ८ ॥

 श्रदर्शनं चादर्शनं चेति द्वन्द्वैकवद्भावः ॥ ८ ॥

आसीत् क्रुद्धस्तु काकुत्स्थः विवशस्तेन मोहितः ।
अथावतस्थे [६] सुश्रान्तः छायामाश्रित्य शाहले ।। ९ ।।

तेनेति । दर्शनादर्शनाभ्यां विलोभ्य मोहयता मारीचेनेत्यर्थः ॥

स तमुन्मादयामास मृगरूपो निशाचरः ।
मृगैः परिवृतो वन्यैः अदूरात् प्रत्यदृश्यत ।। १० ।

 उन्मादयामासति । ' उन्मादश्चित्तविभ्रमः ' बहुदूरविधावनेन चित्तमोहं चाकरोदित्यर्थः ।। १० ।।


  1. मित्रोत्पातात् ज.
  2. कथञ्चन-ड..
  3. शङ्कितं— रामबाणपातसंभावनया प्राप्तशङ्कं, अत एव समुद्धान्तं – भीतं, अत
    एव अम्बरं - आकाशे उत्पतन्तं - उल्लङ्घयन्तमिव रा.
  4. समीपे मुहूर्तात् — मुहूर्त ददृशे, दूरात्- दूरे मुहुः प्रकाशते- गो.
  5. मृगतां गतः मारीच इत्यन्वगः |
  6. संभ्रान्तः-ड..