पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
300
[अरण्यकाण्ड :
मायामृगवषः/*-

ग्रहीतुकामं दृष्ट्वैनं पुनरेवाभ्यधावत
तत्क्षणादेव संत्रासात् पुनरन्तर्हितोऽभवत् ॥ ११ ॥
पुनरेव ततो दूरात् वृक्षपण्डा [१] द्विनिस्सृतम् । क
दृष्ट्वा रामो महातेजाः तं हन्तुं कृतनिश्चयः ॥ १२ ॥
[२] भूयस्तु शरमृद्धृत्य कुपितस्तत्र राघवः ।
सूर्यरश्मिप्रतीकाशं ज्वलन्तमरि [३]मर्दनः ॥ १३ ॥
संधाय सुदृढे चापे विकृष्य [४] बलबद्धली ।
तमेव मृगमुद्दिश्य [५].श्वसन्तमिव पन्नगम् ॥ १४ ॥
मुमोच ज्वलितं दीप्तं अस्त्रं ब्रह्मविनिर्मितम् ।

 ब्रह्मविनिर्मितमस्त्रमिति । ब्रह्मदत्तवाणमित्यर्थः । स एव हि परमापदि शरणम् ॥ १४ ॥

[६]
 [७] शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः ।। १५ ।।
मारीचस्यैव हृदयं विभेदाश निसंनिभः ।

 मारीचस्यैव हृदयमिति । न तु तत्कृतमायामृगा कारस्येत्यर्थः ॥

तालमात्रमथोत्प्लुत्य न्यपतत् स शरातुरः ।। १६ ।।
विनदन् भैरवं नादं धरण्यामल्पजीवितः [८]

 तालमात्रमुत्प्लुयेति । शरवेधवेगादिति शेषः ॥ १६ ॥


  1. द्विनिरसृतः-ज.
  2. 'भूयः – अत्यर्थ कुपितः- गो. अथवा पूर्व 'आसीत क्रुद्धस्तु (९) इति कथनात,
    भूय: - पुन: कुपित इत्यर्थः ।
  3. मर्दनम् - ज.
  4. बलवकृष्येत्यन्वयः |
  5. ज्वलन्त ज
  6. विशिष्ट स्त्रप्रयोगस्य फलमपि विचित्रं दर्शयति – शरीरमिति |
  7. स भृशं - ज.
  8. अल्पजी वित: --अल्पावशिष्ट जीवितः ।