पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
298
[अरण्यकाण्ड :
चतुश्चत्वारिंशः सर्गः

[मायामृगवधः]

तथा तु तं समादिश्य भ्रातरं रघुनन्दनः ।
[१]बबन्धासिं महातेजा: जाम्बूनदमयत्सरुम् ॥ १ ॥

 अथ मायामृगानुगतरामेण तद्वषः । तथेति । खड्गमुष्टिः ॥ १ ॥

ततः [२] त्रिविनतं चापं [३] आदायात्मविभूषणम् ।
आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ॥ २ ॥

 त्रिविनतं – [४] मध्ये त्रिस्थले विनतं त्रिविनलं, तादृशं चापं शा आदायेत्यर्थः । एतस्य ग्रहस्त्वल्प कार्यत्वात् । तदभिप्रायेणोक्तं – आत्मविभूषणमिति | आत्मालङ्कारभूतमित्यर्थः । कलापौ द्वाविति । द्वे तूणीरे इत्यर्थः ॥ २ ॥

तं [५] वन्यरराजो राजेन्द्रं आपतन्तं निरीक्ष्य वै ।
बभ्रुवान्तर्हितस्त्रासात् पुनः सन्दर्शनेऽभवत् ॥ ३ ॥
बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः ।

 तं वन्यराज इति पाङ्कः । वन्याः- मृगाः तेषां राजा श्रेष्ठः, विचित्रमृगत्वात् । संदर्शने - दृष्टिविषय इत्यर्थः ॥ ३ ॥

[६]तं स्म पश्यति रूपेण [७] द्योतमानमिवाग्रतः ॥ ४ ॥
अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणि महावने ।

रूपेण – स्वरूपेण । अग्रे द्योतमानमिव च स्थितम् ॥ ४ ॥


|

  1. दधारासिं-ज.
  2. व्यवनतं- ङ.
  3. आत्मविभूषणमित्यनेन तत् अगस्त्यदत्तं वैष्णवमिति सूचितम्-ति.
  4. आबन्तयो: मध्ये वा विनतम् ।
  5. वयानो-ड..
  6. तमित्यादिश्लोकात्रयमेकं वाक्यम् - गो.
  7. द्योतयन्त - ज.