पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३ सर्गः]
297
इत्वैनं शीघ्रमेष्यामि तावत् संरक्ष मैथिलीम्


अहमेनं वधिष्यामि ग्रहीष्याम्यपि वा मृगम् ॥ ४६ ।।
यावद्भच्छामि, सौमित्र !' मृग [१]मानयितुं द्रुतम् ।

 यावद्गच्छामीति । ' यावत्पुरे 'ति लट्, गमिष्यामीति यावत् । आनयितुमिति । आनेतुमिति यावत् ॥ ४६ ॥

पश्य, लक्ष्मण ![२] वैदहीं मृगत्वचि [३] [४]गतस्पृहाम् ||४७।
त्वचा प्रधानया ह्येपः मृगोऽद्य न भविष्यति ।
अप्रमत्तेन ते भाव्यं आश्रमस्थेन [५] सीतया ।। ४८ ।।

 गमनावश्यक चीजं दर्शयति -- पश्येत्यादि । त्वचा प्रधानयेति । प्रधानप्रयोजनभूतयेत्यर्थः । ततश्च नायं जीवग्राहं सुशक्यग्रहः इत्युक्तं भवति । ते भाव्यमिति । त्वया भवितव्यमित्यर्थः ।। ४७-४८ ।।।

यावत्पृषत मेकेन सायकेन निहन्म्यहम् ।
हत्वैतच्चर्म चादाय शीघ्रमेष्यामि, लक्ष्मण ॥ ४९ ॥
प्रदक्षिणेनातिबलेन पक्षिणा
[६]जटायुषा बुद्धिमता च, लक्ष्मण |
भवाप्रमत्तः [७]परिगृह्य मैथिली
प्रतिक्षणं सर्वत एव शङ्कितः ॥ ५० ।।

इत्यार्षे श्रीमद्रामायणे वाकमीकीये अरण्यकाण्डे चिरंशः सर्गः

 प्रदक्षिणेन-समर्थेन । सर्वत एवेति । सर्वदिग्वर्तिरक्षोऽसुरादिभ्य इत्यर्थः । नर्म (५०) मानः सर्गः ॥ ५० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे त्रिचत्वारिंशः सर्गः


  1. मानेतुमुद्धतम्-इ.
  2. वैदेह्य:- ज.
  3. गतस्पृहां प्राप्तहां - गो. एवमस्मद्वादेन निराशामिति वा ।
  4. गतां- ज.
  5. सीतया आश्रमस्थेनेत्यन्वयः ।
  6. जटायुवा च सहित इत्यर्थः ।
  7. प्रतिगृह्य-ङ.