पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
296
अरण्यकाण्ड:
लक्ष्मणशङ्का

समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तं ।
उत्स्मयित्वा तु भगवान् वातापिमिदमब्रवीत् ॥ ४२ ॥

 समुत्थाने - श्राद्धान्ते । तद्रूपं - राक्षसं रूपं । उत्स्मयित्वा- ईषत् स्मित्वा ।। ४२ ।।

त्वयाऽविगण्य, वातापे ! परिभृताः [१]स्वतेजसा ।
जीवलोके द्विजश्रेष्ठाः तस्मादसि [२] जरां गतः ॥ ४३ ॥

 अविगण्य-अविचार्य, पापमिति शेषः । स्वतेजसा - स्वबलेन । तस्मादिति । द्विजपरिभवजगपेनेत्यर्थः ॥ ४३ ।।

 [३] तद्रक्षोऽपि भवेदेव वातापिरिव, लक्ष्मण !
मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम् ॥ ४४ ॥
भवेद्धतोऽयं वातापिः अगस्त्येनेव मा गतः

 तद्रक्षोऽपीति | मारीचाख्यरक्षोरीत्यर्थः । मद्विधं य इति । मारीच इत्यर्थः । अगस्त्येनेव मा गत इति । मा-मां गतः अयं मारीचोऽपि, वातापिः अगस्त्येनेव मया हतो भविष्यतीत्यर्थः । ४४ ॥

इह त्वं भव संनद्धः यन्त्रितो रक्ष मैथिलीम् । ४५ ॥
[४] अस्यामायत्तमस्माकं यत्कृत्यं, रघुनन्दन !

 सन्नद्धः - धनुःकवचादिसंनाहयुक्तः । यन्त्रितः-- व्याक्षेपान्तर-रहितः । अस्माकं यत् कृत्यं कर्तव्यं आवश्यकं तदस्यामायत्तं, तदस्यां एतद्रक्षणविषये आयत्तं- स्थितम् ।। ४५ ।।


  1. च देवता: - ङ..
  2. जरां गतोऽसि जीर्णोऽसि ।
  3. तदेतन्न भवेद्रक्ष ङ.तद्रक्षो न भवेदेव-ज.
  4. अस्माकं यत् कृत्यमावश्यकं, तत्सर्वमस्या आयत्तं एतद्रक्षणप्रधानमित्यर्थः ।
    एतन्मूलतया रावणवधादिकं कर्तव्यम् ; श्यं हि पूर्व वेदवतीभावे तथा संकल्पितवतीत्यपि सूचयति- गो.अस्या अपये अनन्तरमस्मार्क कर्तव्यमेव न किञ्चिदस्ति तां विना मम जीवनमेव असंभवीति यावत् ॥