पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३ सर्ग: ]
295
यचयं राक्षती माया, वध्यो बातापित् तदा

 अथ लक्ष्मण मतमङ्गीकृत्यापि प्रवृत्तिमाह- यदि वेत्यादि । हे लक्ष्मण | राक्षसस्य मायैवैषा, न मृगः इति यन्मां प्रति बदसि,यदि वा अयं तथा भवेत् - वदुच्यमानप्रकारो भवेत्, अथापि अस्य वधो मया कर्तव्य इति प्रवृत्तिः उभयथाऽपि प्राप्तैवेत्यर्थः ।। ३७ ।।

एतेन हि नृशंसेन ' मारीचेनाकृतात्मना
वने विचरता पूर्व हिंसिता मुनिपुङ्गवाः ॥ ३८ ॥
'उत्थाय ' बहवो येन मृगयायां जनाधिपाः ।
निहताः परमेष्वासाः तस्माद्वध्यस्त्वयं मृगः ॥ ३९ ॥

 उत्थाय-उत्प्लुत्य ।। ३९ ॥

पुरस्तादिह वातापिः परिभूय तपस्विनः ।।
उदरस्थो द्विजान् हन्ति । स्वगर्भोऽश्वतरीमिव ।। ४० ।।

 खगर्भोऽश्वतरीमिवेति । अश्वतरी स्वगर्भेण म्रियत इति प्रसिद्धिः । ययाऽश्वो न जीवति सा अश्वतरीति । यथा कयाचन व्युत्पत्त्या वृश्चिकोऽप्युच्यते ।। ४० ।।

  • स कदाचित् 'चिराल्लोभात् आससाद महामुनिम् ।

अगस्त्यं तेजसा युक्तं भक्षास्तस्य बभूव ह ॥ ४१ ॥


  • उत्थाय - वञ्चनया हठात् प्राप्येति यावत् । ↑ अश्वारो नाम गर्दभादश्वाया-

मुत्पन्न इति वृत्तिकार:- गो. अश्वतरी गर्दभादश्वायामुत्पन्नेति तीर्थः । कर्कटीति परे । वृश्चिक इति कतक: । अत्र आद्यव्याख्यैव ज्यायसी; तस्या गर्भस्य उदरपाटनं विना म निःसरणमिति सर्वजनप्रसिद्धेः-ति. अस्मिन्नेव काण्डे ११ समें वर्णितेयं कथा || अत्र तिलकोक्तिरेव यथार्था । 'मारीचेन दुरात्मना- ङ. 2 बहवोsनेन-ड. 3 चिराहोके-ज.