पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
292
[अरण्यकाण्ड:
क्ष्मणशङ्का

पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् ।
जिह्वां मुखान्निःसरन्ती मेघादिव शतहदाम् ॥ २७ ॥

 निःसरन्ती-प्रवर्तमानाम् । शतहृदां-विद्युतम् ॥ २७ ॥

[१]
[२] [३] मसारगलर्कमुखः शङ्खमुक्तानिमोदरः
कस्य [४] नामाभिरूपोऽसौ न मनो लोभयेन्मृगः १ ॥ २८ ॥
कस्य रूपमिदं दृष्ट्वा जाम्बूनद मयं, प्रभो !
नानारत्न मयं [५]दिव्यं न मनो विस्मयं व्रजेत् ? |॥ २९ ॥
[६] किं पुनमैथिली सीता बाला नारी न विस्मयेत् ? |
[७] मांमहतोरपि मृगान् विहारार्थं च धन्विनः |
घ्नन्ति, लक्ष्मण ! राजानः मृगयायां महावने ॥ ३० ॥

 अथ रामोऽपि मृगत्व संभावनयैवाइ - मांसहेतोरित्यादि । घन्विनो राजानः मृगयायां मांसंहतोरी मृगान् घ्नन्ति, विहारार्थं च ॥ ३० ॥

धनानि व्यवसायेन विचीयन्ते महावने ।
धातवो विविधाश्रापि मणिरत्नसुवर्णिनः ।। ३१ ॥

 अपि च राजभः घनाने व्यवसायेन मृगययोद्योगेन विचीयन्ते- • संगृह्यन्ते । ननु कुतो वने धन संग्रहप्रसक्तिः इत्यत्राइ- - घातव इत्यादि ।


  1. मसारः-इन्द्रनील । गल्लर्क:- चषकः, 'गल्लर्कश्चानुतर्षश्च तर्षकश्चषकः स्मृतः इति हल यु: ; इन्द्रनील ने में चिपका कारमुखसंपुट:- गो.
  2. बालार्काममुखः शंखमुक्तामणिमनोहरः - ङ.
  3. नामानुरूप्यो- ज.
  4. मयप्रभम् ज.
  5. रम्य-ङ
  6. इदमर्थ कुण्डलितं-ङ,
  7. मांसहेतोरपि विनोदाचे च राजानो मृगान् घ्नन्ति, किं पुनरेवेविषविचित्रवस्तुलाभहेतोरिति भावः- गो.