पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३ सर्ग:]
291
पश्य लक्ष्मण ! वैचित्र्यं शोभां चास्य चमत्कृतिम्

एवं सीतावचः श्रुत्वा तं दृष्टा मृगमद्भुतम् ॥ २२ ॥
● लोभितस्तेन रूपेण सीतया च प्रचोदितः ।
उवाच राघवो हृष्टः भ्रातरं लक्ष्मणं वचः ।। २३ ।।

 तदेव दर्शितं लोभित इति ॥ २३ ॥

पश्य, लक्ष्मण ! वैदेह्याः स्पृहां [१]मृगगतामिमाम् ।
रूपश्रेष्ठतया ह्येष: मृगोऽद्य [२] न भविष्यति ॥ २४ ।।

 रूपश्रेष्ठतया-रूपेण-अलौकिक विचित्रस्वरूपेण श्रेष्ठः – सर्वश्रेष्ठः तेनैव हेतुना । अद्य अनुभूयमान एष तु मृगो न भविष्यति । प्रायेण मृगत्वमत्र न संभावितमित्यर्थः ॥ २४ ॥

न वने नन्दनोद्देशे न चैत्ररथसंश्रये ।
कुतः पृथिव्यां, सौमित्रे ! योऽस्य कश्चित् समो मृगः ।।

 तदेव दर्शयति –– न वन इत्यादि । नन्दन इत्युद्देशः कीर्तन यस्य स तथा । चैत्ररथसंश्रये -तदाख्यवनेऽपि न । पृथिव्यामेव सरसदृशभृगो न समस्तीति ॥

[३] प्रतिलोमानुलोमाञ्च रुचिराः रोमराजयः ।
शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ॥ २६ ॥

 उक्त एवार्थ: प्रपञ्चयते - प्रतिलोमेत्यादि । कनकबिन्दुभिः चित्रा: रोमराजयः इत्यन्वयः ॥ २६ ॥


  1. उल्लसिता-ज.
  2. न भविष्यति न जीविष्यति-ति. 'न भविष्यति-न सेत्स्यति, दुर्लभ त्य :- गो.
  3. प्रतिलोमा:-तिर्यग्भूताः, अनुलोमा:- अनुकूला:- गो.