पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
290
[अरण्यकाण्ड:
लक्ष्मणशङ्का

 शष्पोपरि प्रतिष्ठापिता बृसी-तापसासनं-; तस्यामित्यर्थः । विनीता-प्रसारितायाम् | उपासितुं - त्वत्समीपे अवस्थातुमित्यर्थः ।। १९ ।।

[१] काम वृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् ।
वपुषा त्वस्य सत्वस्य विस्मयो जनितो मम । २० ।।

 कामवृत्तमिति । कैकेय्यादिवत् स्वकामप्रयोजनाय तन्नियोजन- रूपमिदं कृत्यं घोरं स्त्रीणां असदृशं-अनुचितामेति यद्यपि मतं-ज्ञातम्; अथापि अस्य स्वप्नविस्मयः मम जनित इति कौतुकनिवृत्त्यर्थ अनुचितमपि करोमीत्यर्थः ॥ २० ॥

[२]तेन काञ्चनरोम्णा तु मणिप्रवरभृङ्गिणा |
तरुणादित्यवर्णेन [३]नक्षत्रपथवर्चसा || २१ ।।
[४] बभूव राघवस्यापि मनो विस्मयमागतम् ।

 नक्षत्रपथवर्चसेति । नक्षत्र सदृशनानाबिन्दूपलक्षितत्वात् । नक्षत्रपथः - छाया पथः । राघवस्यापीति । संभावितासंभावितवस्तु- तत्त्वनिरूपण कुशल बुद्धेरपीत्यर्थः । मनो विस्मयमागतमिति। भवितव्य- तायाः प्राबल्यादिति शेषः ॥ २१ ॥


  1. आनयेति वक्तुमध्ययुक्तम् । अतः तवापि कुतूहलमस्ति चेत् तथा क्रियतामिति भावः । अनेन पूर्व आनयेति प्रमादादुक्तस्य क्षमापणं कृतम्- गो. अथवा स्त्रीणां कार्यसाधनाय प्रकटी क्रियमाणः विनयः अत्र प्रदर्शितः ।
  2. न केवलं स्त्रीपारवश्येन कृतवान्; किन्तु स्वविस्मयेनापीत्याह - तेनेत्यादिना - गो.
  3. नक्षत्रसढ शबिन्दूपकक्षितस्वात् तत्तुल्यवचेसा-गो.
  4. मनः विस्मयं आगतं - प्राप्तं बभूव ।