पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३ सर्ग:]
289
रामोऽप्यन्तरूपं तं दृष्ट्वा शेवाच लक्ष्मणम्

नानावर्णविचित्राङ्गः [१]रलंबिन्दुसमानितः ।
द्योतयन् वन [२]मव्यग्रं शोभते शशिसंनिभः ।। १३ ।।

 शशिसन्निभः इत्यनेन आह्लादकत्वम् ॥ १३ ॥

अहो ! रूपं अहो ! लक्ष्मीः स्वरसंपच्च शोभना ।
मृगोऽद्भुतो विचित्राङ्गः हृदयं हरतीव मे ।। १४ ।।

 स्वरसंपत्-ध्वनिसमृद्धिः ॥ १४ ॥

यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव |
आर्यभूतं भवति विस्मयं जनयिष्यति ।। १५ ।।

 तव ग्रहणं- त्वत्कर्तृकग्रहणमित्यर्थः ।। १५ ।।

समाप्तवनवासानां राज्यस्थानां च नः पुनः ।
अन्तःपुरविभूषार्थ: मृग एव भविष्यति ।। १६ ।।
भरतस्यार्यपुत्रस्य श्वश्रूणां भम च, प्रभो !
मृगरूपमिदं [३]व्यक्तं विस्मयं जनयिष्यति ॥ १७ ॥
जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः ।
अजिनं, नरशार्दूल ! रुचिरं मे भविष्यति ।। १८ ।।

 जीवन् ग्रहणं नाभ्येतीति हतोऽपि वा यदि ग्रहणं प्राप्नोति, तदाऽप मे प्रयोजनमस्तीत्याह -- अजिनमित्यादि । १८ ।

निहतस्यास्य सच्चस्य जाम्बूनदमयत्वचि ।
[४] शष्यबृस्यां विनीतायां इच्छाम्यहमुपासितुम् ।। १९ ।।


  1. रत्नभूतो ममाग्रतः-ज.
  2. मन्ययः-ङ..
  3. दिव्यं-ज.
  4. शपष्टस्यां-बालतृणैः कृतायां वृस्यां - गो.