पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
288
[अरण्यकाण्ड:
लक्ष्मणशङ्का

एवं ब्रुवाणं [१] काकुत्स्थं प्रतिवार्य शुचिस्मिता ।
उवाच सीता संहृष्टा छद्मना ३ हृतचेतना ॥ ८ ॥

 प्रतिवार्येति । अयं न राक्षसः, अपि तु चित्रमृग एव, अतो नैतद्द्ब्रहणविघ्नः त्वया कार्यः इत्युक्तेत्यर्थः । छद्मना-वञ्चनेन ॥ ८ ॥

आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः ।
आनयैनं, महाबाहो ! क्रीडार्थ नो भविष्यति ।। ९ ।।

 नः- अस्माकम् ॥ ९ ॥

इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः ।
मृगाचरन्ति सहिताः सृमराश्चमरास्तथा ।। १० ।।

 सृमरचमरौ कृष्णशुक्लपुच्छचमरमृगौ ॥ १० ॥

ऋक्षाः पृषतसंघाश्च वानराः किन्नरास्तथा ।
^विचरन्ति, महाबाहो! रूपश्रेष्ठाः 'मनोहराः ॥ ११ ॥
न चास्य सदृशः, राजन् ! दृष्टपूर्वो मृगः पुरा ।
तेजसा [२]क्षमया दीप्तचा यथाऽयं मृगसत्तमः ॥ १२ ॥

 तेजसा-विचित्रगतिसामर्थ्येन । क्षमया-सौम्यभावेन । दीप्तघा- देहप्रभया ॥ १२ ॥


श्वरमगवत् नास्य अत्यन्त संभ्रमो दृश्यत इति भावः । ' विहरन्ति-ज. हृतलोचना -ङ. महाबलाः -ज. 2 चर्मणा, मृगेण ड. " न चान्य:- ज.

  1. सौमित्रि-ड..
  2. श्वरमगवत् नास्य अत्यन्त संभ्रमो दृश्यत इति भावः ।