पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३ सर्ग:]
287
क्रीडार्थमानयैनं मे इति सा राममब्रवीत्

 अथ सीतया प्रदर्शितं मायामृगं मायामृगत्वेन निश्चित्यैव ग्रहो वा वघो वा भविष्यतीति सीताचितानुवर्तनाय रामः प्रवर्तते । सा तमित्यादि । चक्रन्द – 'कदि-क्रदि-क्लदि आह्वाने रोदने च', आहूतवती ॥ १-२॥

तावाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ ।
वीक्षमाणौ तु तं देशं तदा दहशतुर्मृगम् || ३ ||

 ताबाहूताविति । तया सीतयेत्यनुषङ्गः ॥ ३ ॥

शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् ।
तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥ ४ ॥
चरन्तो मृगयां हृष्टाः पापेनोपाधिना बने ।
अनेन निहताः, [१]राजन् ! राजानः [२] कामरूपिणा ॥ ५ ॥

 मृगयां चरन्तः इति । मृगयार्थं पर्यटन्त इत्यर्थः । उपाधिनेति । मृगरूपोपाधिनेत्यर्थः ॥ ५ ॥

[३]अस्य [४]मायाविदो मायामृगरूपमिदं कृतम् ।
[५]भानुमत्, पुरुषव्याघ्र ! [६] गन्धर्वपुरसंनिभम् || ६ ||

 मायाविदः इति षष्ठी । भानुमत् - ज्योतिष्मत् ॥ ६॥

मृगो ह्येवंविधो रत्नविचित्रो नास्ति, राघव !
जगत्यां, जगतीनाथ ! मायैषा हि न संशयः ।। ७ ।।

 नास्तीति । एवमुपादानकमृगासंभवादिति भावः ॥ ७ ॥


  1. राम-ज.
  2. पापरूपिणा-ङ..
  3. मन्ये ङ.
  4. मायाविनो- ङ.
  5. सुमते- ङ.
  6. गन्धर्व पुरवदापातरमणीयं-ति. गन्धर्व पुरं - नानाविधविस्मयनीयाकार संस्थानं क्षणभङ्गुरमत्रं; तत्सन्निभं - तद्ब्रद्विस्मयनीयं-गो.