पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
286
[अरण्यकाण्ड:
लक्ष्मणशङ्का

अनर्हाडरण्यवासस्य सा तं रत्नमयं मृगम् ।
मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना ॥ ३३ ॥
सा तं रुचिर [१]दन्तोष्ठी रूप्यधातुतनूरुहम् ।
विस्मयोत्फुल्लनयना सस्नेहं समुदक्षत ॥ ३४ ॥
सच तां रामदयितां पश्यन् मायामयो मृगः ।
विचचार पुनश्चित्रं दीपयन्निव तद्वनम् ॥ ३५ ॥
अदृष्टपूर्व तं दृष्ट्वा नानारत्नमयं मृगम् ।
विस्मयं परमं सीता जगाम जनकात्मजा ॥ ३६ ॥

 इत्याषें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे द्विचत्वारिंशः सर्गः

षण्ड (३६) मानः सर्गः ॥ ३६ ॥

इति श्रीमद्रामायणामृतकतकटीकाय अरण्यकाण्डे द्विचत्वारिंशः सर्गः

त्रिचत्वारिंशः सर्गः

[लक्ष्मणशङ्का]

सा तं संप्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती ।
हैमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ।। १ ।।
प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी ।
भर्तारमभिचक्रन्द लक्ष्मणं चापि [२] सायुधम् [३] ॥ २ ॥


  1. दन्तोष्ठं-ज.
  2. 'सायुधमित्यनेन आयुवेन सहागन्तव्यमित्याहूतवतीति गम्यते-गो. सदा राम-सीतारक्षणतत्परत्वं वा गम्यते ।
  3. एतदनन्तरं आहूयाहूय च पुनः तं मृगं साधु वीक्षते । आगच्छागच्छ शीघ्रं वै आर्यपुत्र सहानुज: - इत्यधिक- ङ. ज.