पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२ सर्ग:]
285
सीता च तं मृगं चित्रं दृष्ट्वा विस्मयमागता

विक्रीडंच क्वचिमा पुनरेव निषीदति ।
आश्रमद्वारमागम्य मृगयूथानि गच्छति ।। २६ ।।
मृगयूथैरनुगतः पुनरेव निवर्तते ।
सीतादर्शनमाकांक्षन् राक्षसो मृगतां गतः ॥ २७ ॥
परिभ्रमति चित्राणि मण्डलान्यभिनिष्पतन् [१] |॥ २८ ॥

 अभिनिष्पतन् - वल्गमान इति यावत् ॥ २८ ॥

समुद्रीक्ष्य च तं सर्वे मृगा ह्यन्ये वनेचराः |
उपागम्य [२]समाघाय विद्रवन्ति दिशो दश ।। २९ ।।

 समाप्राय विद्रवन्ति इति । अमृगत्वनिश्चयादिति शेषः ॥ २९ ॥

राक्षसः सोऽपि तान् वन्यान् मृगान् मृगवधे रतः ।
प्रच्छादनार्थं [३] भावस्य न भक्षयति संस्पृशन् ॥ ३० ॥

 भावस्य प्रच्छादनार्थमिति । तत्प्रयोजनमुद्दिश्यैव संस्पृशन्नपि मृगान् न भक्षयति ॥ ३० ॥

तस्मिन्नेव ततः काले वैदेही शुभलोचना ॥
कुसुमापचयव्यग्रा पादपानभ्यवर्तत ॥ ३१ ॥
[४]कर्णिकारानशोकांच चूतांश्च मदिरेक्षणा ।
कुसुमान्यपचिन्वन्ती चचार रुचिरानना || ३२ ॥


  1. मतदनन्तरं समीपे मृगयूथस्य विस्मितानि विशेषत: इस्यधिकं ड
  2. 'गावो घ्राणेन पश्यन्ति' ।
  3. भावस्य स्वक्रोर्यभावस्य ।
  4. अत्र अशोकचूतकुसुमानामपचयोक्तया शिशिरान्तकालोऽयम् । 'गन्धवान् सुरभिर्मासः जातपुष्पफलद्गुमः' इति, ‘सन्तापयति सौमित्रे शूरश्चत्रवनानिलः' इति च पम्पातीरे रामोक्तेश्च । किचाग्रे द्वादशमासोत्तरं यद्येषा मां नाङ्गीकरोति तदैनां हन्मीति रावणप्रतिज्ञा । ततो हनुमदर्शनकाले च तं प्रति सीतावाक्यम् 'वर्तते दशमो मासः द्वौ तु शेषो प्लवङ्गम' इति सङ्गच्छते । माधाष्टम्यां हरणे हि मार्गेशुक्लाष्टम्यां ततोऽवांगेव या दशमसमाप्तगा तस्य वर्तमानत्वोक्तिरसङ्गतैव स्यात्, तच्छुकाक्षान्ते हनुमतस्तदर्शनात्-ति.