पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३ सर्गः ]
293
विस्मापयति मामेव किं पुनमैथिली असो

 [१]तत्सार मखिलं नॄणां धनं निचयवर्धनम् ।
मनसा चिन्तितं सर्व यथा [२] शुक्रमतं तथा ! ॥ ३२ ॥

 नणां-- राजादिधनिनां निचयवर्धनं -कोशवर्धनं धनं तत्सारं जानपदघनादपि वन्यधनं सारं भवति - अतिप्रशस्तं भवति । भवतीत्यर्थः । अत्रांश दृष्टान्तः –मनसेत्यादि । शुक्रं ब्रह्म । " सपर्यगात् शुक्रं अकार्य" इत्याधुनिषदतिप्रसिद्धश्चायमर्थः । शुक्रमतं - ब्रह्मलोकाभिमतं, मनमा चिन्तितं - संकलंग्मात्रसिद्धम् । सर्वं वस्तु भोग्यवस्तुमात्रं यथा सर्वस्मात् सारतरं तद्वदित्यर्थः । 'स यदि .. यं यं कामं कामयते संकल्पादेवास्य समुत्तिष्ठन्ति' इति सुप्रसिद्धं संकल्पमात्रसुलभत्वं मुक्तभोग्यवस्तुनः ॥ ३२ ॥

[३] अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ।
तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याच, लक्ष्मण ! ॥ ३३ ॥

 एवं अर्थार्थामपि प्रवृत्ति राज्ञामुपवर्ण्य अर्थपुरुषार्थम्य लक्षणं प्रकृते अर्थधिया प्रवृत्तिशेषतया उपदिशति- अर्थी येनेत्यादि । अर्थापेक्षी पुमान् येन अर्थकृत्येन अर्थनिमित्तेन कर्मणा अविचारयन् सरसौन्दर्यात् बला देव संत्रजति तादृशमर्थ – वस्त्वे अर्थशास्त्रज्ञाः अर्थ – अर्थपदार्थं प्राहुः ॥ ३३ ॥


  1. अखिलं धनं नॄणां निचयवर्धनं — कोशवर्धनं भत्रेत् । किमिव शुक्रस्य मनसा चिन्तितं – संकलितं वस्तुजातं तथैवाविर्भूय निचयवधन स्था, तद्वदित्यर्थः । गानॄणां मनसा चिन्तितं – वृथामनोरथकल्पितं सर्व धनं यथा शुक्रस्य कोश पूर तथेत्यर्थः । तदुक्तमुद्योगपर्वणि 'मनुष्येभ्यः समादत्ते शुक्रश्चिन्दार्जित धनम्' इति - गो. शुकस्य – दैत्याचार्यस्येव व्यक्तप्राकृतबन्धस्य रा. इदं नीतिशास्त्रविः शुक्रस्य मतमित्यपि केचित् ।
  2. शुक्रस्य लक्ष्मण- ङ. ज.
  3. अस्त्विदं, अथापि विचार्य कार्यमिति चेत् -- अति-गो.