पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४० सर्ग:]
271
मारीचेनैवमुक्तोऽपि रावणः कुपितोऽब्रवीत्

 'त्वद्वाक्यैर्न तु मां शक्यं' इति पाकः । पापशीलत्वादि-विशेषकस्य रामस्य संयुगे युद्धविषये व्यवस्थितं मां भेत्तुं त्वद्वाक्यैः त्वया न शक्यमिति योजना । प्राकृतं स्त्रीवाक्यं श्रुत्वेति । असारं कैकेयीवाक्यमित्यर्थः । एकपदे – द्राक् ॥ ५ ॥

अवश्यं तु मया तस्य [१] संयुगे खरघातिनः ।
प्राणैः प्रियतरा सीता हर्तव्या [२] तव सन्निधो ॥ ६ ॥
एवं मे निश्चिता बुद्धिः हृदि, मारीच ! वर्तते ।
न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ ७ ॥
दोषं गुणं वा संपृष्टः त्वमेवं वक्तुमर्हसि ।
[३] अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये ॥ ८ ॥

 अपि च अपृष्टोत्तरप्रलापः तवासङ्गत इत्याह — दोषमित्यादि । कस्यचित् संदिग्धस्य कार्यस्य निश्चये-निश्चयसिद्धयर्थं अस्मिन्ननुष्ठिते को गुणः ? को दोषः ? कः उपायः ? को वाऽपायः ?' इति यदि पृष्टं स्यात्,तथा पृष्टे सत्यव गुणदोषादिकं वक्तुमर्हसि, मया तु निश्चिते कार्ये केवलं साहाय्ये नियुज्यते, अतो न ते जल्पः सङ्गतः इत्यर्थः ॥ ८ ॥

संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ।
उद्यताञ्जलिना [४]राज्ञे य इच्छेद्भूतिमात्मनः ॥ ९ ॥

 अथ सचिवकृत्यं तु राजनि पृष्टोत्तरमेव, तच्च सोपचारं वक्तव्य- मिति राजनीतिरित्याह--संपृष्टेनेत्यादि ॥ ९ ॥ {{rule}

  1. संयुगे खरघातिन इत्यन्वयः ।
  2. तव सन्निधौ - त्वत्साहाय्ये इति यावत्
  3. कार्यस्य विनिश्चये उपायं, अपायं, दोषं, गुणं वा संपृष्ट इत्यन्वयः ।
    इति- ङ.
  4. राज्ञः-ज.