एतत् पृष्ठम् अपरिष्कृतम् अस्ति
272
[ अरण्यकाण्ड:
मारीचभर्त्सनम्
[१] वाक्यमप्रतिकूलं तु मृदुपूर्व हितं शुभम् ।
उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ।। १० ।।
तस्यैव विवरणं वाक्यमित्यादि १० ॥
ननु प्रतिकूलमपि हितं राज्ञे वक्तव्यं इत्याशङ्कयाह – सावमर्द- मित्यादि । राजपृष्टावमदेसहित मित्यर्थः ॥ ११ ॥
पञ्चानां रूपाणि पञ्च रूपाणि । के ते इत्यतः अमेरित्यादि । कस्य किं रूप धारयन्तीत्यतः - औष्ण्यमित्यादि । १२-१३ ॥
अभ्यागतमित्यनेन विशिष्य पूजनीयत्वसूचनम् ॥ १४ ॥
- ↑ एवं वक्तृगुणा उक्ताः, अथ वचनप्रकारमाह - वाक्यमिति - गो.
- ↑ सोपमर्द, सावमान-ङ,
- ↑ यद्वाक्यमथवा हित-ज. यद्वाक्यं मानहारीद-कु.
- ↑ मानार्थी-ज.
- ↑ वर्जितः-ङ.
- ↑ औष्ण्यं-तीक्ष्णत्वं, विक्रम:-बला तिशयः, सोम्यं कृपालु, दण्ड:- दुष्टनिग्रहः
प्रसन्नता-प्रसाद: रा. - ↑ नित्यदा-ज.
- ↑ राजानं, विशिष्येदानीं अभ्यागतं- इति भावः।
- ↑ बदसीदृशम्-ज.