पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
270
[अरण्यकाण्डः
मारीचभर्त्सनम्

चत्वारिंशः सर्गः

[मारीचभर्त्सनम् ]

[१] मारीचेन तु तद्वाक्यं [२]क्षमं युक्तं निशाचरः ।
उक्तो न प्रतिजग्राह [३] मर्तुकाम इवौषधम् ॥ १ ॥

 एवं मारीचोपदिष्टं अप्रतिगृह्णाने रावणे बलात् स्वाभिमतदुष्कृत्ये नियुज्यते । मारीचनेत्यादि । मारीचेन तत्-- पूर्वोक्तप्रकारक क्षमं-सदृशं " युक्तं- कालोचितमेव वाक्यमुक्तम् एवं उचित एवोक्त:- उपदिष्टः निशाचरो रावणः, मुमूर्षुः औषघमिव तदुक्तं न प्रतिजग्राह ॥ १ ॥

तं [४] पथ्यहितवक्तारं मारीचं राक्षसाधिपः ।
अब्रवीत् परुषं वाक्यं अयुक्तं कालचोदितः ॥ २ ॥
[५] यत् किलैतदयुक्तार्थं, मारीच ! मयि कथ्यते ।
वाक्यं निष्फलमत्यर्थ उप्तं बीजमिवोषरे |॥ ३ ॥

 अयुक्तार्थमिति । राजचित्तप्रतिकूलत्वात् अनुचितार्थकम् ॥

त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे रामस्य संयुगे विषये मां भेत्तु- सीताहरणोपायात युद्धे मां प्रवर्तयितुं
स्वद्वाक्यैर्न शक्यम्- गो. रामस्य संयुगे [६]
पापशीलस्य मूर्खस्य मानुषस्य विशेषतः ॥ ४ ॥
यस्त्यक्ता सुहृदो राज्यं मातरं पितरं तथा ।
स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ॥ ५ ॥


  1. मारीचस्य-ज.
  2. क्षेमंयुक्तं- ङ.
  3. मर्तुकाम: - मुमूर्षुः सन्नि'हृतमरणः ।
  4. पथ्य – अनपायं हितं - सुखावहम् -गो
  5. दुष्कुलेत-ज.
  6. उद्यतं मां-रा. संयुगे पापशीलत्वादि गुणकस्य रामस्य मार्यावरणविषये स्थितं मां ति.